________________
प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५८५
मायिकः । क्विश्चन्तत्वास्कुः, स्रग्वी । 'आमयस्योपसंख्यानं दीर्घश्व” ( वा ३२१३ ) श्रामयावी । 'शृङ्गवृन्दाभ्यामारकन्' ( वा ३२१४ ) शृङ्गारकः । वृन्दारकः । 'फलबर्हाभ्यामिनच्' ( वा ३२१५ ) । फलिनः । बर्हिणः । 'हृदयाच्चालुरन्यतरस्याम्' (वा ३२१६) । इन्ठनौ मतुप्च । हृदयालुः, हृदयी, हृदयिकः, हृदयवान् । 'शीतोष्ण तृप्रेभ्यस्तद सहने -' ( वा ३२१७ ) । शीतं न सहते शीतालुः । उष्णालुः 'स्फायितञ्चि' (उ सू १७० ) इति रक् । तृप्रः पुरोडाशः, तं न सहते तृप्रालुः । 'तृप्रं दुःखम्' इति माधवः । 'हिमाचेलुः' (वा ३२१८) । हिमं न सहते हिमेलुः । 'बलादूलः' ( वा ३२१६ ) बलं न सहते बलूलः । 'वातात्समूहे च' (वा ३२२०) वातं न सहते वातस्य समूहो वा वातूलः । 'तप्पर्व मरुद्रयाम् ' ( वा ३२२१ ) । इति षत्वमाशङ्कयाह 'क्विन्नन्तत्वादिति । श्रमयस्येति । श्रमयशब्दाद् मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलवर्णाभ्यामिति । हृदयाच्चालुरन्यतरस्यामिति । वार्तिकत्रयमिदम् । मतुप्चेति । वक्तव्य इति शेषः, भाष्ये तथोक्तत्वात् । 'चुटू' इति चकारस्येत्संज्ञा । अन्यतरस्यांग्रहणाच्चालोरभावे इनिठनौ । समुच्चयार्थ कान्यतरस्यांग्रहणानुवृत्तेर्मतुबपि । तथा चात्र चत्वारः प्रत्ययाः । तदाह हृदयालुरित्यादि । 'शीतोष्ण तृप्रेभ्यः तन्न सहते' इति वार्तिकमर्थतः संगृह्णाति - शीतेति । शीत, उष्ण, तृप्र एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमाच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद् द्वितीयान्ताद् न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति । तन्न सहते इत्यर्थे वक्तव्य इति शेषः । वातात्समूहे चेति । षष्ठयन्ताद्वातशब्दात् समूहेऽर्थे, द्वितीयान्ताद् न सहते इत्यर्थे च, ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भयामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप् वक्तव्य इत्यर्थः । तन्वक्तव्य इति वृत्तिकृत्, हरदत्तश्च । व्रश्चादिषत्वमाशङ्कयाह – क्विन्नन्तत्वादिति । हृदयाच्चालुरन्यतरस्याम् । अन्यतरस्यांग्रहणम् इनिठनोः प्राप्त्यर्थम् । मतुप् सर्वत्र समुच्चीयत एव । चकारस्य 'चुटू' इतीत्संज्ञा । तेन हृदयालुशब्दोऽन्तोदात्त इत्याहुः । शीतोष्णेति । इह चालुरनुवर्तते । पुरोडाश इति । 'न तृप्रा उरुव्यचसम्' इति मन्त्रस्य भाष्ये तथा व्याख्यासत्वादिति भावः । माधव इति । सुब्धातुवृत्तौ स्थितमिदम् | हिमाच्चेलुरिति । एकारादिरयं प्रत्यय इति माधवः । बलादिति । सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ । तप्पर्वमरुद्भ्याम् । पित्त्वमनुदात्तत्वार्थम् । काशिकायां तु 'पर्वमरुद्भ्यां तन्वक्तव्यः' इति स्थितम् । हरदत्तेन तु तन्निति प्रतीकमुपादाय