________________
५८६ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय. पर्वतः । मरुत्तः । १९२६ ऊर्णाया युस् । (५-२-१२३) सित्त्वात्पदस्वम् । ऊर्णायुः । अत्र 'छन्दसि' इति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अहंशुभमो:-' (सू १६४६ ) इत्यत्रैवोर्णाग्रहणं कुर्यात् । १६३० वाचो ग्मिनिः। (५-२-१२४) वाग्ग्मी । १६३१ आलजाटचौ बहु. भाषिणि । (५-२-१२५) 'कुत्सित इति वक्तव्यम्' (वा ३२२३) कुत्सितं बहु भाषते वाचालः, वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव । १६३२ स्वामिन्नैश्वर्ये । (५-२-१२६) ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे श्रामिनच् । स्वामी । १६३३ अर्शआदिभ्योऽन् । (५-२-१२७) अशांस्यस्य विद्यन्ते प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाभावान्न मतुप् । ऊर्णाया युस् । ऊर्णायुशब्दे 'यस्येति च' इति लोपमाशङ्कयाह सित्त्वादिति । अनुवर्तयन्तीति । 'बहुलं छन्दसि' इत्यस्मादिति शेषः । वाचो ग्मिनिः। वाचशब्दाद् मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः। अतद्धित इति पर्युदासाद् गकारस्य नेत्संज्ञा।वाग्ग्मीति। वाचशब्दाद् ग्मिनिप्रत्यये कुत्वम् , जश्त्वम् । प्रत्यये गकारोच्चारणं तु 'प्रत्यये भाषायाम्-' इत्यनुनासिकाभावार्थम् । आलजाटचौ । वाचशब्दाद् अालच, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु, अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यम्, 'यो हि सम्यग् बहु भाषते वाग्मीस्येव स भवति' इति भाष्यबलेन पूर्वसूत्रस्य सम्यग् बहु. भाषिरायेव प्रवृत्तरभ्युपगमादिति भावः। स्वामिन्नैश्वर्य। ऐश्वर्य इति प्रकृतिविशेषणमित्यभिप्रेत्याह ऐश्वर्यवाचकादिति । आमिनजिति । निपात्यत इति शेषः । स्वामीति । स्वम् ऐश्वर्यम् , तद्वानित्यर्थः । नियन्ते ते यावत् । ऐश्वर्येआद्युदात्तत्वार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रबन्धेन दीक्षितैनिराकृतं तत एव तदवधार्यम् । पदत्वमिति । तेन 'यस्येति च' इति लोपो न प्रवर्तत इति भावः । अनुवर्तयन्तीति । 'बहुलं छन्दसि' इत्यतः । वाचो ग्मिनिः । इकारो नकारपरित्राणार्थः । चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वारिग्मनावित्यादौ द्वयो. कारयोः श्रवणं भवति । द्वित्वं तु त्रयाणाम् । 'मिनिः' इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणम् । द्वित्वाभावे त्वेकस्यैव श्रवणं स्यात् । किंच 'यरोऽनुनासिके-', 'प्रत्यय भाषायां नित्यम्' इति वाङ्मयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति । तच्चानिष्टमिति ग्मिनिः कृतः। स्वामिन्नैश्वर्ये । ऐश्वर्यवाचकादिति । स्वशब्दस्यैश्वर्यवाचित्वमेतवृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईश्वरः । स तु स्वामीत्युच्यते । यथा