________________
प्रकरणम् ३८] बालमनोरमा तत्त्वबोधिनीसहिता। [५८७ प्रशंसः । प्राकृतिगणोऽयम् । १९३४ द्वन्द्वोपतापगात्प्राणिस्थादिनिः । (५-२-१२८) द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः । कुष्ठी। किलासी । गई निन्द्यम् । ककुदावर्ती । काकतालुकिनी । 'प्राणिस्थात् किम्-पुष्पफलवान्घटः । 'प्राण्यङ्गान' । पाणिपादवती । 'अतः' इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् । १९३५ वातातीसाराभ्यां कुक्च । (५-२-१२६) चादिनिः । वातकी । अतीसारकी। 'रोगे चायमिष्यते' । नेह । वातवती गुहा । 'पिशाचाच' (वा ३२२४) । पिशा. चकी । १६३६ वयसि पूरणात् । (५-२-१३०) पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि थोत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चम्युष्ट्रः । उना. दिबाधनार्थमिदम् । वयसि' किम्-पञ्चमवान् ग्रामः । १६३७ सुखादिभ्यश्च । त्युक्तेर्धनवानित्यर्थे स्वामीति न भवति । अर्शआदिभ्योऽन् । अर्शस्शब्द आदिः एषामिति विग्रहः । अर्शस इति । अर्शो गुदरोगविशेषः । द्वन्द्वोप ताप। द्वन्द्वसमासाद् उपतापवाचकाद् गहवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनिः स्यादित्यर्थः। द्वन्द्वति उदाहरणसूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणम्रोग इति । किलासः कुष्ठभेदः । गर्यमित्यस्य विवरणम्-निन्द्यमिति । ककुदाव. र्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सः अस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भाष्ये अदर्शनात् । अत इत्येवति । 'समासान्त' इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाभावादिनिर्नेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्ध पुनरिह इनिग्रहणं किमर्थमित्यत आह सिद्धे प्रत्यय इति । ठनादीति । श्रादिना मतुपः संग्रहः । वातातीसाराभ्यां कुक्च । चादिनिरिति । वात, अतीसार श्राभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अतीसारकीति । अतीसाररोगवानित्यर्थः । रोगे चायमिति । व्याख्यानादिति भावः। रोग एवे. त्यर्थः । वातवती गुहेति । अत्र रोगस्याप्रतीतेरिनिकुको नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः । वयसि वागीश एव वाचस्पतिः वाचः स्वामीति । ऐश्वर्ये किम् , स्ववान् । अर्शआदि