________________
५८८ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय(५-२-१३१) इनिर्मस्वर्थे । सुखी । दुःखी । 'माला क्षेपे' ( ग. सू. ११६ )। माली। १९३८ धर्मशीलवर्णान्ताच्च । (५-२-१३२) धर्माद्यन्तादिनिमत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली। ब्राह्मणवर्णी । १६३६ हस्ताजाती। (५-२-१३३) हस्ती। 'जातौ' किम्-हस्तवान्पुरुषः । १६४० वर्णाद्ब्रह्म चारिणि । (५-२-१३४) वर्णी । १६४१ पुष्करादिभ्यो देशे । (५-२-१३५) पुष्करिणी । पमिनी । 'देशे' किम्-पुष्करवान्करी । 'बाहूरुपूर्वपदादलात्' ( वा ३२२५) बाहुबली । अरुबली । 'सर्वादेश्व' (वा ३२२६ )। सर्वधनी। सर्वबीजी । 'अर्थाचासन्निहिते' (वा ३२२७) । अर्थी । सन्निहिते तु अर्थवान् । 'तदन्ताच' (वा ३२२८) । धान्यार्थी । हिरण्यार्थी । १६४२ बलादिभ्यो मतुबन्यतरस्याम् । (५-२-१३६) बलवान् , बली । उत्साहवान् , उत्साही । १६४३ संज्ञायां मन्माभ्याम् । (५-२-१३७) मन्नन्तान्मान्तानिर्मत्वर्थे । मन्-प्रथिमिनी । दामिनी । म-होमिनी । सोमिनी । पूरणात् । 'अत इनिठनौ' इत्येव इनिसिद्धेः किमर्थमिदमित्यत आह ठनादि. बाधनार्थमिति। सुखादिभ्यश्च । इनिर्मत्वर्थ इति । इनिरेव, नतु ठनित्यर्थः । मालाक्षेप इति । सुखादिगणसूत्रमिदम् । धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण एतदन्तादिनिरेवेत्यर्थः । हस्ताज्जाती। हस्तान्मत्वर्थे इनिरेव समुदायेन जातिविशेषे गम्य इत्यर्थः । वर्णाब्रह्मचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव समुदायेन ब्रह्मचारिणि गम्य इत्यर्थः। वर्णीति । वर्णो ब्राह्मणादिततद्वर्णोचितवसन्तादिकालमुपनयनम्, सोऽस्यास्तीति विग्रहः । पुष्करादिभ्यो देशे। पुष्करशब्दान्मत्वर्थे इनिरेव स्याद् देशे गम्ये । बाहुरुपूर्वपदाद्वलादिति। वार्तिकमिदम् । बाहु, ऊरु एतत्पूर्वपदकाद् बलशब्दान्तान्मत्वर्थे इनिरेवे. त्यर्थः । सर्वादश्चेति । वार्तिकमिदम् । इनिरेवेति शेषः । अर्थाचासंनिहित इति । वार्तिकमिदम् । असंनिहितविषयकादर्थशब्दाद् इनिरेवेर र्थः। अर्थीति । असंनिहितः अर्थः अस्येति विग्रहः। अर्थो नास्तीति यावत् । अत्र विरोधादस्तीति न संबध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः । प्रत्ययविधौ तदन्तविधिनिषेधादाह तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः । बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरतिबलवान् , बलीति। संज्ञायां मन्माभ्याम् । प्रथिमिनीति । 'पृथ्वादिभ्य भ्योऽच् । इह ‘खानाद्धीनात्' इति गो पठ्यते । खञ्जः पादोऽस्यास्तीति खञ्जः । काणं चक्षुर्यस्यास्तीति काणः। प्रथिमिनीति । 'पृथ्वादिभ्यः-' इतीमनिचि ‘टेः'