SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५८६ 'संज्ञायाम्' किम्-सोमवान् । १६४४ कंशंभ्यां वभयुस्तितुतयसः । (५-२-१३८ ) कम् , शम् इति मान्तौ । 'कम्' इत्युदकसुखयोः । 'शम्' इति सुखे । श्राभ्यां सप्त प्रत्ययाः स्युः। युस्यसोः सकारः पदत्वार्थः । कंवः। कंभः । कंयुः । कंतिः । कंतुः । कंतः। कंयः । शंकः । शंभः । शंयुः। शंतिः । शंतुः। शंतः । शयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिकौ वयौ । १६४५ तुन्दिवलिवटेर्भः । (५-२-१३६ ) वृद्धा नाभिस्तुन्दिः । 'मूर्धन्योपधोऽयम्' इति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि । १६४६ अहंशुभमोर्युस् । (५-२-१४०) अहम् इति मान्तमइमनिज्वा' इमनिजन्तः प्रथिमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपि 'अनिनस्मन्-' इति तदन्तविधिना इमनिजन्तोऽपि गृह्यते । प्रथिमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणडीपि प्रथिमिनीशब्दः। दामिनीति । दामन्शब्दादिनौ टिलोपे डीबिति भावः । मेति। मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच इनौ डीबिति भावः । कंशंभ्याम् । व, भ, युस् , ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति। मत्वर्थ इति शेषः। पदत्वार्थ इति । अन्यथा कम् इत्यस्माद् युप्रत्यये यप्रत्यये च कृते भत्वात् पदत्वाभावादनुस्वारो न स्यादिति भावः। वकारयकारपरस्येति । बहुव्रीहिः। वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः । तुन्दिवलि । तुन्दि, वलि, वटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति । 'वट वेष्टने' वटनं वटिः अस्यास्तीति विग्रहः । अहंशुभइति टिलोपः । र ऋतः-' इति रभावः । 'अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति मन्नन्तादिनौ कृते 'नस्तद्धिते' इति टिलोपे नान्तत्वान्डीप् । दामिनीति । दाधातोर्मनिन् । होमिनी । सोमिनीति । 'अर्तिस्तुसुहुसृवृक्षि-' इत्यौणादिके मनि नित्वाद्धोमसोमशब्दौ मन्प्रत्ययान्तौ । कंशंभ्याम् । पदत्वार्थ इति । अन्यथा 'कम्युः, काम्यः, शम्युः, शाम्यः' इति स्यादिति भावः । वकारयकारपरस्येति । बहुव्रीहिरयम् । अनुनासिको वयाविति । एतेन प्रथमप्रत्ययो दन्त्योष्ठयादिः, न तु पवर्गतृतीय इति ध्वनितम् । माधव इति । 'तुडि तोडने' इति धातौ तेनोक्तम्-'वृद्धा नाभिस्तुण्डिः' । इन् । तुण्डिरस्यास्तीति तुण्डिलः । 'तुन्तादिभ्य इलच्च' इत्यत्र 'स्वाङ्गाद्विवृद्धौ' इति गणसूत्रेण इलच् । तुण्डिल एव तुण्डिभः । 'तुण्डिवलिवटेर्भ' इति मत्वर्थीयो भ इति । वटिभ इति । 'वट वेष्टने' इन् । वटिशब्दः पामादिषु पठ्यते । तेन वटिन इत्यपि भवति।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy