________________
५६० ]
सिद्धान्तकौमुदी। तद्धितेषु प्राग्दिशीय. व्ययमहङ्कारे । 'शुभम्' इति शुभे । अहंयुः, अहङ्कारवान् । शुभंयुः, शुभान्वितः।
___ इति तद्धितेषु मत्वर्थीयाः। अथ तद्धितेषु प्राग्दिशीयप्रकरणम् । ३६ ।
१९४७ प्राग्दिशो विभक्तिः। (५-३-१) 'विक्षन्वेभ्यः' इत्यतः प्राग्वक्ष्यमाणाः प्रत्ययाः विभक्निसंज्ञाः स्युः । अथ स्वार्थिकाः प्रत्ययाः। 'समर्थानाम्' इति 'प्रथमात्' इति च निवृत्तम् । 'वा' इति त्वभुवर्तत एव । १६४८ किंसर्वनामबहुभ्योऽयादिभ्यः । (५-३-२) किमः सर्वनाम्नो बहुशब्दाचेति प्राग्दिशोऽधिक्रियते । १६४६ इदम् इश् । (५-३-३) प्राग्दिशीये परे । १६५० एतेतौ रथोः । (५-३-४) इदंशब्दस्य 'एत' मोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्कयाह अहमिन्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति ।
इति तद्धितेषु पञ्चमाध्यायस्य द्वितीयपादे मत्वर्थीयप्रकरणम् ।
अथ पञ्चमाध्यायस्य तृतीयपादे प्राग्दिशीयप्रकरणं निरूप्यते । प्राग्दिशो विभक्तिः । दिक्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह दिक्छन्देभ्य इत्यत इति । विभक्तिसंज्ञका इति । तत्फलं तु 'न विभक्तौ तुस्माः' इति निषेधः, त्यदाद्यत्वम् , इदम 'ऊडिदंपदादि' इति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः । तसिलादिष्वर्थनिर्देशाभावाद् 'अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाचेति भावः । निवृत्तमिति । अत्रोपपत्तिः ‘समर्थानाम्' इत्यत्रोक्ता । अनुवर्तत एवेति । व्याख्यानमेवात्र शरणम् । किंसर्वनाम । 'अयादिभ्यः' इति च्छेदः । 'प्राग्दिश' इत्यनुवर्तते । तदाह प्राग्दिशोऽधिक्रियत इति । विधेयानिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि यादिपर्युदासात् पृथग्ग्रहणम् । धादिषु किंशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च को, इत्यत्र 'त्यदादीनां मिथः सहोक्तौ' इति किमः शेषत्वार्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह इदम इश् इत्यादिना । इदम इश। प्राग्दिशीये परे इति शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात् सर्वादेशः। इत इत्युदाहरणम् । अहंयुः। शुभंयुरिति । पूर्ववदनुवारपरसवर्णों ।
इति तत्त्वबोधिन्यां मत्वर्थीयप्रकरणम् । किंसर्वनाम । यादिपर्युदासात्किमः पृथग्रहणम् । व्यादिषु किम् , शब्दपाठे प्रयोजनं तु त्वं च कश्च को । अहं च कश्च को इत्यत्र किमः शेषः । 'त्यदादीनां