________________
प्रकरणम् ३६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६१
कु
'इत्' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः । १६५१ एतदोऽन् । ( ५-३ - ५ ) योगविभागः कर्तव्यः । ' एतदः' एतेतौ स्तो रथोः । 'अन्' । एतदः इत्येव । श्रनेकाल्वात्सर्वांदेशः । ' नलोपः प्रातिपदिकान्तस्य' ( सू २३६ ) । १६५२ सर्वस्य सोऽन्यतरस्यां दि । (५-३-६) प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् । १६५३ पञ्चम्यास्तसिल् । ( ५-३-७) पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्वा स्यात् । १६५४ तिहोः : । ( ७- २ - १०४ ) किमः कुः स्यात्तादौ हकारादौ च विभक्तौ परतः । एतेतौ रथौः । 'इदमः' इत्यनुवर्तते । एतच इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते । ' यस्मिन्विधिः' इति तदादिविधिः । तदाह इदं शब्दस्येत्यादिना । तत्र रेफादौ परे एतः, थादौ तु इदिति यथासंख्यं बोध्यम् । एतर्हि, इत्थम् । एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतदुशब्दस्य अन् स्यादित्यर्थः प्रतीयते । एवं सति एतच्छब्दस्य अनेव स्यात् । नत्वेतेतौ । तत्राह योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् 'एते तौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एतर्हि, इत्थम् इत्युदाहरणम् । श्रन्निति द्वितीयं सूत्रम् । एतद इत्येवेति । 'रथो:' इति तु नानुवर्तते इति भावः । तथा च एतद इत्यस्य अन् स्यात्प्राग्दिशीये परे इति फलति । अतः अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायाम् अकारोs न्तादेशः स्यादित्यत श्राह श्रनेकाल्वादिति । नकारस्य प्रयोजनाभावाद् नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः । तर्हि अत इत्यादौ नकारस्य श्रवणं स्यादित्यत आह नलोप इति । सर्वस्य सोऽन्यतरस्यां दि । दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् । ' यस्मिन्विधिः' इति तदादिविधिः । तदाह प्राग्दिशीये दकारादाविति । सदा इत्युदाहरणम् । तदेवं तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् देशान् विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते । पञ्चम्यास्तसिल् । किमादिभ्य इति । किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति । 'समर्थानाम् -' इत्यतो वाग्रहणस्यानुवृत्तेरिति भावः । कुतिहोः । मिथः सहोक्तौ यत् परं तच्छिष्यते' इत्युक्तत्वात् । एतदोऽन् । भाष्यरूढोऽयं पाठः । वृत्तिकारस्तु 'एतदोऽश्' इति पठित्वा शकारः सर्वादेशार्थ इत्याह । अनिति । प्राग्दिशीये परे अन्स्यात् । अनेकाल्त्वादिति । नित्करणस्य प्रयोजनं नास्ति प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः । कु तिहोः । तकारादिकार उच्चारणार्थः ।