________________
५६२] सिद्धान्तकौमुदी। तद्धितेषु प्राग्दिशीय. कुतः कस्मात् । यतः। ततः । अतः । इतः । अमुतः । बहुतः यादेस्तु द्वाभ्याम्। १६५५ तसेश्च । (५-३-८) किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् । १९५६ पर्यभिभ्यां च । (५-३-६) कु इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः' इत्यनुवर्तते । 'अष्टन श्रा' इत्यतो 'विभक्तौ' इति । तिश्च ह च तयोरिति द्वन्द्वः। इकार उच्चारणार्थः । ताभ्यां विभक्तिविशेष्यते। तदादिविधिः तदाह किमः कुः स्यादित्यादिना । कुत इति । किंशब्दात् पञ्चम्यन्तात्तसिल। सुब्लुक् । किमः कुनावः । 'तसिलादयः प्राक् पाशपः' इत्युक्तेरव्ययत्वम् । वेत्यनुवृत्तेः फलमाह कस्मादिति। 'तिहोः' इत्युक्तेरत्र न कुभावः । सर्वनाम्न उदाहरति यत इति । यदशब्दात् पञ्चम्यन्तात् सुब्लुक्, तसिलो विभक्तित्वात् तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवं तच्छ. ब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतद्शब्दात् पञ्चम्य. न्तात् तसिल, सुब्लुक् , एतदोऽन् , सर्वादेशः, नलोपः । पक्षे एतस्मादिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात् तसिल् , सुब्लुक् , इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात् पञ्चम्यन्तात तसिल , उत्वमत्वे च । पक्षे अमुष्मादिति भवति । बहुत इति । पक्षे बहुभ्य इति भवति । द्यादे. स्त्विति । सर्वनामत्वात् प्राप्तस्तसिल यादिपर्युदासान्नेत्यर्थः । नसेश्च । परस्य तसेरिति । 'प्रतियोगे पञ्चम्यास्तसिः' 'अपादाने चाहीयरहोः' इति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल किमर्थमित्यत आह स्वरामिति । लित्स्वरार्थमित्यर्थः। विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वाद्यर्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद् विभक्तित्वाभावात त्यदायत्वादिकं न वेत्यनुवृत्तेः फलं दर्शयति कस्मादिति । यतस्तत इति । कृत्तद्धित-' इति प्रातिपदिकत्वात्सुपो लुकि त्यदायत्वम् । पक्षे यस्मात् । तस्मात् । इत इति । 'इदम इश्' पक्षे अस्मात् । अत इति । एतदोऽनादेशः । पक्षे एतस्म त् । अमुत इति । 'अदसोसेः-' इति मुत्वम् । पक्षे अमुष्मात् । बहुत इति । पक्षे बहुभ्यः । द्वाभ्यामिति । सर्वनामत्वात्प्राप्तोऽपि तसिल 'अयादिभ्यः' इति पर्युदासान्न । तसेरिति । 'प्रतियोगे पञ्चम्यास्तसिः', 'अपादाने चाहीयरहोः' इति विहितस्य तसेस्तसिलादेश इत्यर्थः । विभक्त्यर्थ चेति । अन्यथा परत्वात्तसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदायत्वाभावे 'यतोऽवगच्छति' इत्यादि न सिध्येदिति भावः । ननु तसेमित इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिन प्रवर्तते। तस्य निरवकाशत्वात् । तथा च 'तसेश्च' इति विधानं व्यर्थमिति वाच्यम् ,