________________
प्रकरणम् ३६] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६३ माम्यां तसिल स्यात् । 'सर्वोभयार्थाभ्यामेव' (वा ३२४० ) । परितः सर्वत इत्यर्थः । श्रभित उभयत इत्यर्थः । १६५७ सप्तम्यास्त्रल् । (५-३-१०) कुत्र । यत्र । तत्र । बहुत्र । १९५८ इदमो हः। (५-३-११) लोऽपवादः । इशादेशः । इह । १६५६ किमोऽत् । (५-३-१२) वाग्रहणमपकृष्यते । सप्तम्यन्तारिकमोऽद्वा स्यात् । पक्षे त्रल । १९६० क्वाति । (७-२-१०५) किमः कादेशः स्यादति । क्व । कुत्र । १६६१ वा ह च च्छन्दसि । (५-३-१३) स्यादित्यर्थः । पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वार्तिकमिदम् । परिषिञ्चति अभिषिञ्चति इत्यादौ वाग्रहणात् पक्षे न तसिल । सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्यः अद्यादिभ्यस्खलित्यर्थः । कुत्र इत्यादिरूपाणि कुत इत्यादिवत् । इदमो हः । इदंशब्दात् सप्तम्यन्ताद् हप्रत्ययः स्यादित्यर्थः । किमोऽत् । अपकृष्यत इति । 'वा ह च छन्दसि' इत्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् । न विभक्काविति निषेधस्तु न भवति, 'तवर्गस्येत्त्व प्रतिषेधोऽतद्धिते' इति वार्तिकात् । क्वाति । क्व अतीति छेदः । 'क्व' इति लुप्तप्रथमाकं 'किमः कः' इत्यतः 'किमः' इत्यनुवर्तते । तदाह किमः केति । किंशब्दात् सप्तम्यन्ताद् अत्प्रत्ययः, तकार इत् , किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाभावपक्षे त्रलि 'कु तिहोः' इति कुभावे रूपम् । केचित्तु 'किमोऽत्' इत्यत्र उत्तरसूत्राद्वाग्रहणापकर्षे प्रमाणाभावात्त्रलं बाधित्वा नित्य एव अत्प्रत्ययः, कुत्रेति त्वपशब्द एवेत्याहुः । वा ह च छन्दसि । 'ह' इति लुप्तप्रथमाकम् । किमः सप्तम्यन्ताद् हप्रत्ययः स्यादित्यर्थः । चादत् त्रल् च । कुतोऽवहीयते कुतोऽवरोहतीत्यादौ तसिलः सावकाशत्वात् । सर्वोभयार्थाभ्यामेवेति। अत्र चाभिधानस्वाभाव्यमेव हेतुः । तेनेह न भवति । परिषिञ्चति । अभिषिञ्चति । उपर्यर्थे परिः । अभिस्त्वाभिमुख्ये। नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावे परिरिति तसिलभावः कथमिति चेत् । मैवम् , वावचनानुवृत्त्या तु तत्सिद्धः। सप्तम्यास्त्रल । इह त्रल्तसिलो स्वतन्त्री प्रत्ययौ, न तु सप्तमीपञ्चम्योरादेशौ । तेन कुत्र बहुत्र कुतः बहुत इत्यादौ 'अच्च घेः', 'घर्जिति' इत्यादिकं नेत्याहुः । किमोऽत् । 'न विभक्ती तुस्माः' इति निषेधोऽत्र न प्रवर्तते थमोरुकारेण मकारपरित्राणार्थेनानित्यताशापनात् । वाग्रहणमिति । 'किमोऽद्वा' इति सूत्रं पठित्वा 'ह च छन्दसि' इति सूत्रयितुं युक्तम् । कुत्रेति । यद्यपि भागवृत्तिकारो भाषायां त्रल् नेच्छति, तथापि बहुप्रयोगदर्शनादिह खीकृतम् । तथा च श्रीहर्षः-'नान्यत्र कुत्रापि च साभिलाषम्' । अमरश्वाह-'साहचर्याच कुत्रचित्' इति । वा ह च छन्दसि । पूर्वोक्तस्य वाग्रहणाप