________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [११५ 'श्रात्' इति योगविभागादास्वम्, 'प्रागेकादशभ्यः-' (सू १६६५) इति निर्देशाद्वा , एकादश । महतीशब्दस्य 'पुंवकर्मधारय-' (सू ७४६) इति पुंवदावे कृते पारवम् , महाजातीया । 'महत पारवे घासकरविशिष्टेषूपसंख्यानं पुंवद्रावश्च' (वा ३६५०)। असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) अष्टाकपालः । 'गवि च युक्ने' (वा ३६५२)। गोशब्दे परे युक्त इत्यर्थे गम्ये अष्टन धात्वं स्यादिति वक्तव्यमित्यर्थः । अष्टागवं शकटम् । परिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थ समानाधिकरणग्रहणमिति भावः । न च सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम् , उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणम् , परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु 'आन्महतः- इत्यत्र महत एव ग्रहणाद् 'यष्टनः-' इत्युत्तरसूत्रे यष्टनोरेव ग्रहणाद् एकादशेत्यत्र कथमात्त्वमित्यत आह-आदिति योगविभागादात्त्वमिति । योगविभागस्य भाष्यादृष्टत्वादाह-प्रागेकादशभ्य इति निर्देशाद्वति । एकादशेति । एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । आन्महत इत्यत्र लिङ्गविशिष्टपरिभाषया भहतीशब्दस्यापि जातीयप्रत्यये परे महतीजातीयेति स्यादित्यत आह-महतीशब्दस्येति । न च परत्वात्पुंवत्त्वं बाधित्वा आत्त्वं स्यादिति वाच्यम् , 'आन्महतः-' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङयाप्सूत्रे भाष्ये उक्तत्वादिति भावः । महत आत्त्व इति । घास, कर, विशिष्ट एषु परतो महत प्रात्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः । ननु 'प्रान्महतः-'इत्यात्त्वे 'पुंवत्कर्मधारय-' इति पुंवत्त्वे च सिद्ध किमर्थमिदमित्यत आह-असामानाधिकरण्यार्थमिदमिति । महाकर इति । महतो मह त्या वा कर इत्यथैः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः, अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः अष्टाकपाल इति। अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोलुंगनपत्ये' इति लुक् । आत्त्वं सवर्णदीर्घः । गवि च युक्त इति । वार्तिकमिदम् । तत्सूचयितुमाहवक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावो यस्येति बहुअष्टनः कपाल इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । 'संस्कृतं भक्षाः' इत्यणो 'द्विगोर्जुनपत्ये' इति लुक् ।