________________
११६ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास'अप्रस्यन्वव-' (सू १४३ ) इत्यत्र 'अच्' इति योगविभागाद्वहुव्रीहावप्यच् । अष्टानां गवां समाहारोऽष्टगवम्, तद्युक्त्वाच्छकटमष्टागवमिति वा । ८०८द्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । (६-३-४७) श्रात्स्यात् । द्वौ च दश च द्वादश । व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीयशीत्योः किम्-हिन्वाः, ब्यशीतिः । 'प्राक्शतादितिवनव्यम्' (वा ३६५३) नेहद्विशतम् , द्विसहस्रम् । ८०६ त्रेस्त्रयः। (६-३-४८) त्रिशब्दस्य त्रयस् व्रीहिः । श्रात्त्वम् , सवर्णदीर्घः । अष्टभिर्गोभियुक्तमित्यर्थः । ननु ‘गोरतद्धितलुकि' इति रज्विधेस्तत्पुरुषमात्रविषयत्वाद् अष्टागवमिति कथमित्यत आह--अच्प्रत्यन्ववेत्यत्रेति । तत्पुरुषत्वे अष्टगवशब्दष्टजन्त एवेत्याह-अष्टानामिति । तथा च समाहारद्विगोस्तत्पुरुषत्वाद् 'गोरतद्धितलुकि' इति टच सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात् , कथं वा आत्त्वमित्यत आह-तद्युतत्वादिति । समाहारद्विगुरूपतत्पुरुषादृचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य प्रात्त्वमित्यर्थः । द्वयष्टनः । शेषपूरणेन सूत्रं व्याचष्टे-पात्स्यादिति । द्विशब्दस्य अष्टन्शब्दस्य च संख्यावाचके उत्तरपदे परे प्रात्स्यात् , न तु बहुव्रीह्यशीत्योरित्यर्थः । द्विशब्दस्योदाहरति-द्वादशेति । द्वौ च एकश्च येकाः, यधिक एक येक इत्यादौ तु नास्ति, “एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषो न स्तः' इति 'चार्थे-' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति । द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । ‘स नपुंसकम्' इति क्लीबत्वं तु न । किंतु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न, अनभिधानात् । यधिका विंशतिरिति तत्पुरुषो वा । अथाष्टशब्दस्योदाहरति-अष्टादशेति । अष्टौ च दश चेति द्वन्द्वः । अष्टाधिका दशेति वा । अष्टाविंशतिरिति । अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । अष्टाधिका विंशतिरिति वा । द्वित्रा इति । द्वौ वा त्रयो वेति विग्रहः । 'संख्याव्यय-' इति बहुव्रीहिः । 'बहुव्रीही संख्येये डच्' इति डच् । बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वं न। द्वयशीतिरिति। द्वौ चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात्। घधिका अशीतिरिति वा । अत्राशीतिपरकत्वाद् द्विशब्दस्यात्त्वं न । प्राक्शतादिति। 'यष्टनः संख्यायाम्-' इत्येतत् शतप्रभृतिसंख्याशब्दे परे न भवतीति वक्तव्यमित्यर्थः। द्विशतमिति। द्वौ च शतं चेति समाहारद्वन्द्वः । यधिकं शतमिति वा । एवं द्विसहस्रमित्यत्रापि। त्रेस्त्रयः। सन्धि'अर्ध्यधपूर्व' इत्यणो लुमिति केषांचिद् व्याख्यानं तु प्रामादिकम् , 'संस्कृतम्-' इत्यणः अनाहीयत्वात् । प्रेस्त्रयः । संधिवलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेश इति