________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ११७
,
स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । श्रशीतौ तु त्र्यशीतिः । प्राक्छतादित्येव, त्रिशतम् । त्रिसहस्रम् । ८१० विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ( ६-३-४६ ) द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् । त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत् । एवं पञ्चा शत्षष्टिसप्ततिनवतिषु । ८११ एकादिश्चैकस्य चादुक् । ( ६-३-७६ ) एकादिर्नम्प्रकृत्या स्यादेकस्य चादुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः । अनुनासिकविकल्पः वेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह - त्रयस्स्यादिति । पूर्वविषय इति । प्राक्शतात् संख्याशब्दे उत्तरपदे परतः, न तु बहुव्रीह्यशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम् उत्त्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थ: । 'बहुव्रीहौ संख्येये डच् -' इति डच् । नन्वत्र त्रिरित्यस्य ‘संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्' इति सुजन्तत्वात् समासेऽपि सुचः श्रवणापत्तिरित्यत आह--सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र 'संख्याव्यय-' इति बहुव्रीहिः, न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाशीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतमिति वा । एवं त्रिसहस्रमित्यपि । विभाषा चत्वारिंशत् । व्यवहितस्यापि नोरित्यस्य सम्बन्धाय--२ -- सर्वेषामिति । द्यष्टनोस्त्रेश्चेत्यर्थः । तदाहह्यष्टनोस्त्रेश्चेति । एकादिश्च । 'न लोपो नञः' इत्यतो नञ इति षष्ठयन्तमनुवर्तते । तच्च प्रथमया विपरिणम्यते । 'नभ्राण्नपात् -' इत्यतः प्रकृत्येत्यनुवर्तते, तदाह - एकादिर्नञ् प्रकृत्येति । एक आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदुगिति श्रदुगिति वा छेदः । नञो विंशत्येति । न विंशतिरिति विग्रहे नञ्समासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृतत्वाद्यभावात् कथमिह तृतीयासमास इत्यत आह-- तृतीयेति योगविभागादिति । अनुनासिकविकल्प इति ।
ध्वनयन्नाह । त्रयस्स्यादिति । सुजर्थे बहुव्रीहिरिति । ' संख्ययाव्यया-' इत्यादिनेति शेषः । एकादिरिति । अदुगिति छेदः । पररूपं त्वकारोच्चारणसामर्थ्या