SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासएकेन नविंशतिः एकाचविंशतिः-एकानविंशतिः । एकोनविंशतिरित्यर्थः । षष उत्त्वं दतृदशधासूत्तरपदादेष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२)। षोडन् , षोडश, षड्धा, षोढा।८१२ परवल्लिङ्गं द्वन्द्वतत्पुरुषयो। (२-४-२६) तृतीयासमासे कृते सुब्लुकि एक नविंशति इति स्थिते 'न लोपो नमः' इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र ककार इत् , उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद् नविंशतिरिति स्थिते 'यरोऽनुनासिके-' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारणसामर्थ्यान्न भवति। एकेन न विंशतिरिति विग्रहवाक्यम् । एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्नविंशतिः, एकानविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति । पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । 'पूर्वसदृश-' इति समासः । सो चासौविंशतिश्च । षष उत्वमिति । दतृशब्दे दशशब्दे च उत्तरपदे परे धाप्रत्यये च परे षषशब्दस्य उत्वम् उत्तरखण्डस्य दतृशब्दस्य दशशब्दस्य धाप्रत्ययस्य च श्रादेर्दकारस्य धकारस्य च टुत्वं च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः, न तु ष्टुत्वमिति प्रयोजनाभावात् । 'धासु वा' इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रहणमिति भाष्यम् । धाप्रत्यये परे षष उत्वं वा स्यात् । टुत्वं तु उत्त्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेवेति कैयटः। उत्वपक्ष एव नित्यं टुत्वमिति हरदत्तः । षोडन्निति । षड् दन्ता यस्येति बहुव्रीही 'वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्त्वम् । अन्त्यषकारस्य उत्त्वम् । श्राद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्त्वान्नुम् , सुलोपः, संयोगान्तलोपः । तस्यासिद्धत्वान दीर्घः । षोडन् इति रूपम् । षोडशति । षट् च दश चेति, षडधिका दशति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम् , श्राद्गुणः, दकारस्य टुत्वेन डकारः । हरदत्तमतमनुसृत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति-- षड्धेति । 'संख्याया विधार्थे धा' । अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु टुत्वमपि न भवति । 'झलां जशोन्ते' इति जश्वन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति-षोढेति । धाप्रत्ययः, अन्त्यस्य षकारस्य उत्वम् , आद् गुणः, टुत्वेन धस्य न भवति । धासु वेति । 'संख्याया विधार्थे-' इत्यादिना विहितस्य धाप्रत्ययस्यैवेह ग्रहणम् , 'प्रत्ययाप्रत्यययोः' इति परिभाषया। तेनेह न-षट् दधातीति षड्धा। 'प्रातोsनुपसर्गे कः' टाप् । षोडन्निति । षड् दन्ता अस्य षोडन् । 'वयसि दन्तस्य-' इति दत्रादेशः । परवल्लिङ्गम् । इतरेतरयोगे द्वन्द्वोऽत्र गृह्यते न समाहारे द्वन्द्वः । 'स १-साचेत्यादि विग्रहः क्वचिनास्ति ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy