________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११६
1
,
एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापन्चालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' ( वा १५४५) पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । श्रलं कुमार्यै अलंकुमारिः । श्रत एव ज्ञापकात्समासः । ढ इति भावः । कैयटमते तु उत्वाभावपक्षेऽपि त्वं नित्यमेव । षड्ढा । कैयटमतमेव युक्तम्, षोढा, षड्ढा इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् । परवल्लि ङ्गम् । परवदिति षष्ठयन्ताद्वतिः । तदाह -- एतयोः परपदस्येवेति । द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् समाहारद्वन्द्वे 'स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति । अत्र द्वन्द्वे अवयवलिङ्गेनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्ध नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थ - प्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति षष्ठधन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । द्विगु, प्राप्त, आपन्न, अलंपूर्व, गतिसमास एतेषु परनल्लिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः । पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तं न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति । अत्र उत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलंपूर्वस्योदाहरति--अलं कुमार्यै, अलंकुमारिरिति । अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे - ' इत्यपि न भवति, तस्य समासस्य नित्यत्वेन अलं कुमार्यै इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह-अत एवेति। 'एकविभक्ति च-' इति कुमारीशब्दस्योपसर्जनत्वाद्धस्वः ।
,
नपुंसकम्' इत्यपवादस्य वक्ष्यमाणत्वात् । ' सूत्रे द्वन्द्वतत्पुरुषयोः' इति न सप्तमी - द्विवचनम् । तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वपदाक्षेपकत्वात् ततश्च मयूरीकुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः । कुक्कुटमयूर्यौ, अर्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्ये । किं तु षष्टिद्विवचनमित्याशयेनाह - - एतयोरिति । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम् । उपमेये षष्ठयभ्युपगमाद्वतिरपि षष्ठयन्तादेव इत्याशयेनाह – परपदस्येवेति । भाष्ये तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति प्रत्याख्यातमिदं सूत्रम् । अस्मिँश्च प्रत्याख्याते तुल्यन्यायत्वाल्लिङ्गानुशासनं सर्वमेव प्रत्याख्यातम्, तथापि तत्प्रौढिवादमात्रम् । अन्यथा व्याकरणस्यैव वैयर्थ्यप्रसङ्गात् । गतिसमासेष्विति । गतिग्रहणं प्रादीनामुपलक्षणं मुख्यस्य गतेरसंभवादित्याशयेन