________________
१२० ]
सिद्धान्तकौमुदी । [ तत्पुरुषसमास
निष्कौशाम्बिः । ८१३ पूर्ववदश्ववडवौ । ( २-४-२७ ) द्विवचनमतन्त्रम् । अश्ववडवौ । श्रश्ववडवान्। श्रश्ववडवैः । ८१४ रात्राह्नाहाः पुंसि । (२-४-२६) एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । श्रनन्तरत्वात्परवल्लिङ्गतापवादो ऽप्ययं परस्वासमाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्नः । गतिसमासमुदाहरति-निष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायम्, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्लेः । तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः । पूर्ववदश्ववडवौ । अश्वश्च वडवा च इति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्ववडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभत इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आहद्विवचनमतन्त्रमिति । उपलक्षणमिदम् । द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । रात्राह्वाहाः । द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशेष्यते, तदन्तविधिः । रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह — एतदन्ताविति । परवल्लिङ्गतापवादः । ननु अहोरात्र इति समाहारद्वन्द्वे 'स नपुंसकम् ' इति नपुंसकत्वप्रसङ्गः । न च नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम्, 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेोदाहर्तुमुचित इत्यत आह—अनन्तरत्वादिति । श्रयमिति । पुंस्त्वविधिरिति शेषः । होरात्र इति । अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम् अपवा दत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । 'हस्सर्वैकदेश -' इत्यच् । पूर्वाह्न उदाहरति । निष्कौशाम्बिरिति । अतन्त्रमिति । अत्र च लिङ्गं पूर्ववद्ग्रहणम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्यश्ववडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति । ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्यानिवर्तनाट्टापः श्रवणप्रसङ्गः । न चातिदेशवैयर्थ्यम्, शसि नत्वप्रवृत्त्या अनुप्रयोगे पुँल्लिङ्गत्वभावेन च तत्सार्थक्यादिति चेदत्राहुः - इहैव निपातनाद् 'अश्ववडवपूर्वापराधरोत्तराणाम् -' इत्यत्र निपातनाद्वा टापो निवृत्तिरिति । अहोरात्र इति । प्राचा तु अहोरात्रमित्युदाहृतम् । तन्नेति प्रागेवोक्तम् । अत्र वदन्ति 'रात्राद्वा-' इत्यनेन रात्रादीनामेव पुंस्त्वं विधीयते । तदन्तस्य तु 'परवल्लिङ्गम् -' इत्येव सिध्यति । अत एव भिन्नविषयत्वाद् 'विप्रतिषेधे परं कार्यम्' इति न प्रवर्तते । एवं च 'रात्राहाहा:-' इति पुंस्त्वा प्रवृत्त्या समाहारे 'स नपुंसकम्' इत्येव भवति, परवल्लिङ्गापवादत्वादिति ।
1