________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२१ ब्यहः 'संख्यापूर्व रात्रं कीबम्' (लि १३१)। द्विरात्रम्, त्रिरात्रम् , गणरात्रम् । ८१५ अपथं नपुंसकम् । (२-४-३०) तत्पुरुषः इत्येव । अन्यत्र तुअपथो देशः । कृतसमासान्तनिर्देशानेह-अपन्थाः । ८१६ अर्धर्चाः पुंसि च। (२-४-३१) अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः, अर्धर्चम् । इति । अह्न पूर्वमित्येकदेशिसमासः । 'राजाहस्सखिभ्यः' इति टच् । 'अहोऽहः' इत्यहादेशः । परवल्लिङ्ग नपुंसकं च बाधित्वा पुंस्त्वम् । द्वयह इति । द्वयोरहोस्समा. हार इति विग्रहे द्विगुः, टच् , 'न संख्यादेस्समाहारे' इत्यहादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभावान्न स्त्रीत्वम् , समासान्तस्य समासभक्तत्वात् । संख्यापूर्वम् । लिङ्गानुशासनसूत्रमिदम् । न त्वष्टाध्यायीस्थं सूत्रम्, नापि वार्तिकम् , भाष्ये अदर्शनात् । 'रात्राहाहाः पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः । 'अहस्सर्वैकदेश-' इत्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवतु-' इति संख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् । अपथं नपुंसकम् । न पन्था इति विग्रहे नसमासे नओ नस्य लोपे 'ऋक्पू:-' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति । 'परवल्लिङ्गम्-' इत्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः। अपन्था इति। 'पथो विभाषा' इति समासान्तविकल्पः । 'पथः संख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धर्चाः । बहुवचनात्तदादीनां ग्रहणमित्याह-अर्धर्चातन्न । उक्तरीत्या द्वयहत्र्यहादावपि नपुंसकत्वप्रसङ्गात् । न चेष्टापत्तिः । द्वयहस्त्र्यह इति प्राचाप्युदाहृतत्वेन खमूलग्रन्थेन सह विरोधापत्तेः । 'ते तु त्रिंशदहोरात्रः' इत्यादिकोशविरोधाच्च । तस्माद्रात्राद्यन्तस्यैवायं पुंस्त्वविधिः, 'द्वन्द्वस्तत्पुरुषयोः' इति प्रक्रमणात् तथा च भिन्नविषयत्वाद्यभावाद् रात्राहाहाः' इति पुंस्त्वं समाहारनपुंसकता परत्वेन बाधत एव । संख्यापूर्वमिति । अत्र च 'अपथपुण्याहौ नपुंसकौ'। 'संख्यापूर्वा रात्रिः' इति लिङ्गानुशासनसूत्रं मूलम् । संख्याग्रहणेषु कृत्रिमाकृतिमन्यायो न प्रवर्तते 'द्वयष्टनः संख्यायाम् -'इति सूत्रे अशीतिपयुदासादित्याशयेनोदाहरति । द्विरात्रम्। त्रिरात्रम्। गणरात्रमिति । गणानां बहुरात्रीणां समाहार इति विग्रहः। अपथं नपुंसकम् । तत्पुरुष इत्येवेति । द्वन्द्वग्रहणं तु नानुवर्तते अयोग्यत्वादिति भावः। अपन्था इति। 'पथो विभाषा' इति समासान्तविकल्पः । इदं सूत्रं शक्यमकर्तुम् । 'पथः संख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थत्वात् । प्रसङ्गादाह अर्धर्चा इति। इह केषांचिदर्थभेदेन व्यवस्थेष्यते। सा च व्यवस्था मद्यमकरन्दमाक्षिकाणां वाची मधुशब्दो द्विलिङ्गः,