________________
१२२ ]
सिद्धान्तकौमुदी। [तत्पुरुषसमासध्वजः, ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहाङ्कुशकलशेत्यादि । ८१७ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् । (१-२-५८) एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः-ब्राह्मणः पूज्यः । ८१८ अस्मदो द्वयोश्च । (१-२-५६ ) एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रमः । पक्ष, अहं ब्रवीमि, आवां ब्रव इति वा । 'सविशेषणस्य प्रतिषेधः' (वा ७२१) । पटुरहं ब्रवीमि । ८१६ फल्गुनीप्रोष्ठपदानां च नक्षत्रे । (१-२-६०) द्वित्वे बहुत्वप्रयुक्त कार्य वा स्यात् । पूर्व फल्गुन्यौ, पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः। नक्षत्रे किम्-फल्गुन्यौ माणविके । दय इति । अर्धचमिति । ऋचोऽर्धमिति विग्रहे 'अर्धं नपुंसकम्' इति समासः । 'ऋक्पू:-' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुनपुंसकत्वविकल्पः। जात्याख्यायाम्।
आकृत्यधिकरणन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति ब्राह्मणाः भोज्या इत्यादौ विशेषणान्न स्यादित्याशङ्कय एकस्मिन्नर्थे विद्यमानः शब्दो बहूनान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः । अस्मदो द्वयोश्च । सविशेषणस्येति । 'त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः' इत्यत्र तु अवयवगतबहुत्वाभिप्राय बहुवचनम् । फल्गुनी। नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह-द्वित्वे इति। पूर्वे प्रोष्ठपदे इति । स्त्रीत्वादौङश्शीभावः । 'प्रोष्ठपदा भाद्रपदा स्त्रियाम्' इत्यमरः। फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः-' इत्यण । 'लुबविशेषे' इति लुप् । ततो चैत्रादिवाची तु पुँल्लिङ्गः । क्रियावचनस्तु विशेष्यलिङ्ग इत्येवं यथायथं ज्ञेयम् । अर्धर्चाः पुंसि च' 'स नपुंसकम्' इत्यनयोर्मध्ये 'जात्याख्यायाम्-' इति चतुःसूत्र्याः संगतिरिह चिन्त्या । बहूनां वचनं प्रतिपादनमिति व्याख्यानात् फलितोत्रातिदेश इत्याशयेनाह । एकोप्यर्थो वा बहुवदिति । एवं च विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति-ब्राह्मणाः पूज्या इति। जात्याख्यायां किम् , देवदत्तो यज्ञदत्तः । एकस्मिन् किम् , व्रीहियवौ । अस्मदो द्वयोश्च । चाद् “एकस्मिन् बहुवचनमन्यतरस्याम्' इति च वर्तते तदेवाह-एकत्वे द्वित्वे च विवक्षित इत्यादि । फल्गुनीप्रोष्ठपदानांच। चकारेण द्वयोरनुकर्षणादाह-द्वित्व इति । फल्गुन्यौ माणविके इति । फल्गुनीशब्दाद् 'नक्षत्रेण युक्तः कालः' इत्यण । तस्य 'लुबविशेषे' इति लुप् । ततो जाताथै फल्गुन्यषाढाभ्यां टानौ' इति टः, टित्त्वाद् ङीप । न चायं गौणः,
१ 'पूर्वफल्गुन्यौ' इति क्वचित् पाठः ।