________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२३ ८२० तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् । (१२-६३) बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम्-विशाखानराधाः । नक्षत्रेति किम्-तिष्यपुनर्वसवो माणवकाः । ८२१ स नपुंसकम् । (२-४-१७) समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वा १५५६)। पञ्चमूली । 'श्रावन्तो वा' (वा १५५७) पञ्चखट्वम्, पञ्चखट्वी। जाताथें ‘फल्गुन्यषाढाभ्यां टानौ' इति टः । टित्त्वाद् डीप् । तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे च अनुराधाश्चेति विग्रहः । तिष्यतिपुनर्वसव इति । विष्यश्च पुनवसू चेति विग्रहः । तिष्यशब्दात् पुनर्वसुशब्दाच 'नक्षत्रेण युक्तःइत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् । 'श्रविष्टाफल्गुनी-' इत्यादिना लुक्। जात्याख्यायामित्यादिचतुस्सूत्र्या अत्र संगतिश्चिन्त्या। सनपुंसकम्। 'द्विगुरेकवचनम्' इति द्विगु: 'द्वन्द्वश्च प्राणि-' इति द्वन्द्वश्च तच्छब्देन परामृश्यते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह-समाहार इति । पश्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च श्रोष्टौ चेति विग्रहः । 'द्वन्द्वश्च प्राणि-' इति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तम् उत्तरपदं यस्येति विग्रहः । ‘स नपुंसकम्' इत्यस्यापवादः । पञ्चमूलीति। समाहारद्विगुः, स्त्रीत्वम्, 'द्विगोः' इति ङीप् । प्राबन्तो वेति । स्त्रियां वेति वक्तव्यमित्यर्थः । पञ्चखद्वमिति । समाहारद्विगुः । नपुंसकत्वे ह्रखः । यौगिकत्वात् । तथा च गौणमुख्यन्यायाप्रवृत्त्या नक्षत्रग्रहणमावश्यकमिति भावः । तिष्यपुनर्वस्वोः विशाखानुराधा इति । विशाखे चानुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति। तिष्यपुनर्वसुशब्दाभ्यां पूर्ववद् 'नक्षत्रेण युक्तः कालः' इत्यण, 'लुबविशेष' इति च लुप् । ततो जातार्थे 'संधिवेला-' आदिसूत्रेण अण, तस्य तु श्रविष्टाफल्गुन्यनराधा' इत्यादिना लुक् । नक्षत्र इत्यनुवर्तमाने पुन्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकरः । एवं च 'सिध्यपुनर्वसू' इत्यपि सिध्यतीति दिक्।बहुवचनस्य किम् , इदं तिष्यपुनर्वसु । 'चार्थे द्वन्द्वः' इतिसमाहारद्वन्द्वोऽयम् । स नपुंसकम् । 'अनन्तरस्य-' इति न्यायोऽत्र नाश्रीयते, तथात्वे द्विगुसंग्रहो न स्यादित्याशयेनाह-द्विगुर्द्वन्द्वश्चेति । अत्र व्याचक्षते-प्रकरणादेवानुवाद्यलाभे 'स'ग्रहण मेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य संग्रहार्थम् ,तेन संज्ञापरिभाषमित्यादि सिद्धमिति। पञ्चगवमिति । तद्धितार्थे-'इत्यादिना समाहारे द्विगुः । दन्तोष्ठमिति। 'द्वंद्वश्व प्राणि-' इत्यादिना समाहारे द्वन्द्वः। पञ्चखट्टमिति । नपुंसकह्रस्व । पञ्चखट्रीति । उपस
१ 'नुराधः' इति क्वचित् पाठः । २ 'पूली' इति क्वचित् ।