________________
१२४ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास'अनो नलोपश्च, वा च द्विगुः स्त्रियाम्' (वा १५५८ ) पञ्चतत्क्षी, पञ्चततम् । 'पात्राचन्तस्य न' (वा १५५६)। पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । पुण्यसुदिनाभ्वामहः क्रीबतेष्टा' (वा १५५३) पुण्याहम् । सुदिनाहम् । 'पथः संख्याव्यपञ्चखट्वीति । उपसर्जनह्रखत्वे अदन्तत्वाद् 'द्विगोः' इति स्त्रीत्वपक्षे ङीप् । अनो नलोपश्चेति । अन इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात् , अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं नियामित्यत्रैव संबध्यते, न तु नलोपेऽपि । तेन स्त्रीत्वाभावेऽपि नलोपः। पश्चतक्षीति । पञ्चानां तक्षणां समाहार इति द्विगुः, स्त्रीत्वम् , नलोपः, 'द्विगोः' इति डीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाभावपक्षे ‘स नपुंसकम्' इति नपुंसकत्वम् , नलोप इति भावः । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य तक्षशब्दस्य सुबन्तत्वेन पदत्वाद् 'न लोपः प्रातिपदिक-' इत्यनेन नलोपो भविष्यतीति वाच्यम् , 'उत्तरपदत्वे च-' इति प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति । पात्रादिर्गणः। तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम् , त्रिभुवनम् , चतुर्युगमिति । स्त्रीत्वाभावे ‘स नपुंसकम्' इति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परो यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । 'रात्राह्न-' इत्यस्यापवादः । पुण्याहमिति । पुण्यम् अहरिति कर्मधारयः, 'राजाहः-' इति टच, टिलोपः । 'उत्तमैकाभ्यां च' इति अह्नादेशनिषेधः । सुदिनाहमिति । सुदिनम् अहरिति कर्मधारयः, टच् , टिलोपः, प्रशस्तपर्यायः जनह्रस्वत्वे सत्यदन्तत्वाद् 'द्विगोः' इति स्त्रीत्वपक्षे डीप् । अनो नलोपश्चति । उरपदत्वे चापदविधौ-'इतिप्रत्ययलक्षणप्रतिषेधादप्राप्तो नलोप इति भावः । इह वाशब्दः स्त्रियामित्यनेन संबध्यते, न तु पूर्वेण । तेन नित्यो नलोप इत्याह-पञ्चतक्षमित्यादि । पात्राद्यन्तस्येति । स्त्रीत्वमिति शेषः। आकृतिगणोऽयम् । सुदिनाहमिति । प्रशतपर्यायः सुदिनशब्दः, 'सुदिनासु सभासु कार्यमेतत्प्रतिचिन्वीत विशेषतः स्वयं च' इत्यादिप्रयोगात्।पथः संख्याव्ययेति।संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः। त्रिपथम्, विपथमिति। 'ऋक्पूरब्धूः-' इत्यप्रत्ययः । सुपन्थाः , अतिपन्था इति । 'न पूजनात्' इति समासान्तनिषेधः । कथं तर्हि 'व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः' इत्यमर इति चेत्, प्रमाद एवायमिति बहवः । मनोरमायां तु पथे गतौ' इत्यस्मात् पचायचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तथा च त्रिकाण्डशेषः 'वाटः पथश्च मार्गः स्यात्' इति । तेन पथशब्देन समासे पुंस्त्वमुपपन्नम् । न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम् , इषदर्थे च' इति तत्संभवात्कृत्सायाम