________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२५ यादेः' (वा १५५४ ) । संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः कीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशाग्नेह-सुपन्थाः, अतिपन्थाः । 'सामान्ये नपुंसकम्' (वा ५०४३) । मृदु सुदिनशब्द इति न पौनरुक्त्यम् । पथः संख्याव्ययादेरिति । नपुंसकत्वं वक्तव्यमिति शेषः । संख्याव्ययेति समाहारद्वन्द्वः । संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी, पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा । तदाह-संख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋक्पू:-' इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे–' इति समासः । सुपन्थाः , अतिपन्था इति । 'स्वती पूजायम्' इति समासः । 'न पूजनात्' इति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे 'अपथं नपुंसकम्' इति न कार्यम् । सामान्ये नपंसकमिति । न्यायसिद्धमेतत् , विशेष्यविशेषणासंनिधाने सति स्त्रीत्वपुंस्त्वयोरनभिव्यक्ती 'उभयोरन्तरं यच्च तदभावे नपुंसकम्' इति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन-' इति सूत्रभाष्ये एकश्रुतिः खरसर्वनाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेहि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथा च मृदु पाकं करोतीत्यर्थः । तथा च धातूपात्तव्यापार प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्याद् मृद्विति द्वितीया । यत्र तु धात्वर्थः क णत्वेनान्वेति 'यजेत वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्ग कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव 'ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादावित्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्य यस्य विशेष्यस्यालिङ्गत्वात् तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावाद् नपुंसकत्वमेवेति भावः । इदं चानियतलिङ्गविषयम् । र्थतः पर्यवसानादिति स्थितम् । केचित् तु ‘पथः संख्या-'इति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचादाजन्तस्य,इत्यत्र बीजाभाद्विपथः कापथ इतिप्रयोगो दुरुपपाद एवेत्याहुः। अत्र माधवः-परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र । विपथा नगरी, बहुव्रीहिरयम् । पन्थानमतिक्रान्ता अतिपन्था। इहापि न, 'द्विगुप्राप्ता-' इत्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति । सामान्ये नपुंसकमिति । अनियतलिङ्गविषयकमिदम् । तेनादिः पचति, प्रातरादिरिति पुंस्त्वमेव । मृदु पचतीति । क्रियाविशेषणत्वाद्द्वितीयान्तम् । धातूपात्तभावनां प्रति हि फलांशः कर्मीभूतः। तथा च फलसामानाधिकरण्ये द्वितीया । अत एव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण् । यत्र तु भावनां