________________
१२६ ]
सिद्धान्तकौमुदी |
[ तत्पुरुषसमास
पचति । प्रातः कमनीयम् । ८२२ तत्पुरुषो ऽनकर्मधारयः । ( २-४ -१६) अधिकारोऽयम् । ८२३ संज्ञायां कन्थोशीनरेषु । ( २-४-२० ) कन्थान्तस्तत्पुरुषः क्लीबं स्यात्, सा चेदुशीनरदेशोत्पन्नायाः कन्यायाः संज्ञा । सुशमस्यापत्यानि सौशमयः, तेषां कन्था सौशमिकन्थम् । संज्ञायाम् किम्-वीरणकन्था । उशीनरेषु किम् - दात्तिकन्या । ८२४ उपशोपक्रमं तदाद्याचिख्यासायाम् । ( २-४-२१ ) उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः । ८२५ छाया बाहुल्ये । (२-४-२२) तेन आदिं वचति प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियत लिङ्गत्वात् । तत्पुरुषोऽनम् । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह – अधिकारो ऽयमिति । 'परवल्लिङ्गम् -' इत्यतः प्रागिति शेषः । संज्ञायां कन्था । सुगममेव । उपज्ञा । उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा । ‘स्त्रियां क्तिन्' इत्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । तत्पुरुष इत्यस्य विशेषणमिदम्, तदन्तविधिः, 'स नपुंसकम्' इत्यतो नपुंसकमित्यनुवर्तते । तदाह — उपज्ञान्त उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । श्रादिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवचायामिति यावत् । तदाह - तयोरादिरित्यादि । पाणिनेरुपशेति । कर्तरि षष्ठी । पाणिन्युपशं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव, ज्योतिष्टोमेन यजेतेत्यत्र यथा । एतच्च ' करणे यजः' इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम् । तत्पुरुषोऽनञ् । नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वन्यमाणकार्य भाग्भवतीति सूत्रार्थः । उपशो । उपज्ञायत इत्युपज्ञा । 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यत इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य -' इति वृद्धिप्रतिषेधः । उपज्ञा च उपक्रमश्चेति समाहारद्वन्द्वः । स चानुवर्तमानस्य तत्पुरुषस्य विशेषणम् । तच्छब्देन उपज्ञो - क्रमौ परामृश्येते । तदेतत्सकलमभिप्रेत्याह - उपज्ञान्त इत्यादि । श्राख्यातुमिच्छा आचिख्यासेतीच्छासना इह विवचैव शब्दप्रवृत्तौ नियामिका, न तु वस्तुस्थितिरिति ज्ञाप्यते । तेन ‘त्वदुपक्रमसौजन्यम्' इत्याद्यपि सिध्यति । पाणिनेरिति । कर्तरि