________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [ १२७ छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये-इशूणां छाया इच्छायम् । 'विभाषा सेना-' (सू ८२८) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादिन्यः' इति तु 'श्रा समन्तान्निषादिन्यः' इत्याश्लेषो बोध्यः । ८२६ सभा राजाऽमनुष्यपूर्वा । (२-४-२३) राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् । 'पर्यायस्यैवेष्यते' (वा ५१६) नेह-राजसभा, चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढया रक्षःपिशाचादीनाह । रक्षस्सभम् , पिशाचसभम् । ८२७ अशाला च । (२-४-२४) सङ्घानन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठ्याः समासः । छाया बाहुल्ये। छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमभिप्रेत्याह-छायान्त इति । पूर्वपदार्थति । कस्य बाहुल्ये इत्याकाङ्क्षायाम् पादकद्रव्यनिमित्तकत्वात् छायायाः तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् ? कुड्यस्य छाया कुड्यच्छाया। सभा । राजा च अमनुष्यश्च राजामनुष्यौ, तौ पूर्वी यस्याः सा राजामनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह-राजपर्यायपूर्व इति । इनसभम् , ईश्वरसभमिति । इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणं दर्शयति-पर्यायस्यैवेष्यत इति । भाष्यकृतेति शेषः । 'खं रूपम्-' इति सूत्रे 'जित्पर्यायवचनस्यैव राजाद्यर्थम्' इति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसमेति । चन्द्रगुप्त इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद् देवसभेत्यादावपि स्या. षष्ठी । नन्दोपक्रममिति । नन्दस्योपक्रममिति विग्रहः। छाया बाहुल्ये । बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः । इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्य इति गम्यते । तच्चावरकं पूर्वपदार्थभूतमेवेत्याशयेनाह–पूर्वपदार्थबाहुल्य इति । पूर्वपदार्थबाहुल्ये किम् , कुडयस्य च्छाया कुड्यच्छाया । प्रश्लेषो बोध्य इति । केचित्तु-'इक्षुच्छायनिषादिन्यः' इत्येव पठन्ति । सभा। इनसभमित्यादि । इनशब्दोऽत्र राजपर्यायः, ईश्वरशब्दश्च । ननु 'स्वं रूपम्-' इति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं न पर्यायस्येत्यत आह-पर्यायस्यैवे. प्यत इति । एक्कारेण स्वरूपस्य विशेषाणां च निरासः । कथं तर्हि 'नृपतिसभामगमन्न वेपमानः' इति कीचकवधे । अत्र केचित्-ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः । 'अनकर्मधारयः' इत्युक्तेन क्लीबत्वमित्याहुः । रक्षितस्त्वाह