________________
१२८]
सिद्धान्तकौमुदी। [ तत्पुरुषसमासतार्था या सभा तदन्तस्तत्पुरुषः क्रीबं स्यात् । स्वीसभम् । स्त्रीसङ्घात इत्यर्थः । प्रशाला किम्-धर्मसभा । धर्मशालेत्यर्थः । ८२८विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५) एतदन्तस्तत्पुरुषः क्रीबं वा स्यात् । ब्राह्मणसेनम् , ब्राह्मणसेना । यवसुरम्, यवसुरा । कुड्यच्छायम् , कुड्यच्छाया। गोशालम्, गोशाला । श्वनिशम्, श्वनिशा । 'तत्पुरुषोऽनम्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना।
॥ इति तत्पुरुषसमासप्रकरणम् ॥
दित्यत आह-अमनुष्यशब्दो रूढ्येति । असुरशब्दो दैत्यानिवेति भावः । अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजामनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् । संप्रति संघातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह-संघातार्था या सभेति । सभाशब्द इत्यर्थः । विभाषा सेना । प्रथमार्थे षष्ठी । तत्पुरुष इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह-एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति । शुनो निशति विग्रहः । कृष्णचर्तुदशीत्याहुः । 'शुनश्चतुर्दश्यामुपवसतः पश्यामः' इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावाद् न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नसमासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मगजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति । प्रशाला च । शालावाची संघातवाची च सभाशब्दस्तत्र राजामनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्। अनेन तु संघातवाचिनो विधीयत इत्याह-संघातार्थेति । विभाषा सेना । प्रथमार्थे षष्ठीति । सेनादिभिस्तत्पुरुषो विशेष्यते। विशेषणेन तदन्तविधिस्तदाह-एतदन्त इति । श्वनिशमिति । कृष्णचतुर्दशी। तस्यां किल केचिच्छ्वान उपवसन्ति । एतच्च शाबरभाष्ये तिर्यगधिकरणे स्पष्टम् । 'तत्पुरुष-' इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनम् , न तु 'संज्ञायां कन्थोशीनरेषु' इत्यादिपञ्चसूत्र्याम् । अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य च तत्रासंभवादित्याकरे स्थितम् । तथैव प्रत्युदाहरति--दृढसेन इत्यादि । ननु बहुव्रीहौ विशेष्यनिघ्नता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन । मैवम् , न्यायापेक्षया वचनस्य बलीयस्त्वात् । किं चासति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणस्येति दिक् ॥ इति तत्पुरुषः॥