________________
[ १२६
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
अथ
बहुव्रीहिसमासप्रकरणम् । १६ ।
८२६ शेषो बहुव्रीहिः । (२-२-२३) अधिकारोऽयम् । 'द्वितीया चित-' ( सू ६८६ ) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः 1 ८३० अनेकमन्यपदार्थे । ( २-२-२४) अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । श्रप्रथमाविभक्त्यर्थे
धारयत्वाद् न क्लीबत्वम् । ' तत्पुरुषोऽनञ्कर्मधारयः' इत्यधिकारस्य अत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् ।
इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां तत्पुरुषसमासप्रकरणम् ।
शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननु 'द्वितीया श्रित- ' इति 'तृतीया तत्कृत -' इति 'चतुर्थी तदर्थ-' इति 'पञ्चमी भयेन' इति षष्ठी' इति 'सप्तमी शौण्डे : ' इति च द्वितीयादिविभक्तीनां षराणां समासो विहितः । विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिदुर्लभेत्यत आह - विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रथमाविभक्तिं विशिष्य उच्चार्यविधानाभावात् समासविधिषु विशिष्यनिर्दिष्टद्वितीयादिविभक्तिषट् कापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह - प्रथमान्तमित्यर्थ इति । एतच्च भाष्ये स्पष्टम् । श्रनेकमन्यपदार्थे । प्रथमान्तमिति ।
शेषो बहुव्रीहिः । “शिष् श्रसर्वोपयोगे' कर्मणि घञ् । अत्र वृत्तिकृद् यत्रान्यसमासो नोक्तः स शेष इत्याह । येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ इति हस्दत्तो व्याख्यत् । एतच 'प्राक्कडारात्परं कार्यम्' इति पाठाभिप्रायेण बोध्यम् । श्रस्मिंस्तु पक्षे शेषाग्रहणाभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्रीहिः स्यात् निरवकाशत्वाच्चाव्ययीभाव इत्युन्मत्तग्रङ्ग इत्याद्यनिष्टं पक्षे प्रसज्येत । ‘आकडारादेका-' इति पाठाभ्युपगमपत्रे त्वेकसंशाधिकारेणैवोन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह - द्वितीया श्रितेत्यादिनेति । शेषाधिकार - स्थव्रीहेरेव 'शेषाद्विभाषा' इति कप्प्रत्ययो नान्यस्माद्बहुव्रीहेरित्येतल्लाभार्थमपि शेषप्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपि 'प्रादयो गताद्यर्थे प्रथमया' इत्युक्तम् । तथापि 'द्वितीया श्रितादिभिः' इतिवत् 'प्रथमा केनचित्सह समस्यते' इति