________________
१३०]
सिद्धान्तकौमुदी। सिद्धान्तक
[बहुव्रीहिसमासबहुव्रीहिरिति समानाधिकरखानामिति च फलितम् । प्राप्तमुदकं यं स प्रासोदको शेषग्रहणानुवृत्तिलभ्यमिदंम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाभावात् । अनेकं सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्वेत्यर्थः । एवं चपञ्चभिर्भुक्तमन्नं यस्य स पञ्चभुक्त इति बहुव्रीहिनिवृत्त्यर्थ 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वार्तिकं यद्भाष्ये स्थितम् , यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम् 'अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिकम् , तदुभयमपि न कर्तव्यमित्याह-अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितमिति । शेषप्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिभुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्याप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तम्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद् वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति-प्राप्तमिति । 'गत्यकर्मक-' इति कर्तरि क्तः । नोक्तमित्यर्थः । वार्तिकता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति । काण्ठेकाल इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्यार्थ इत्यर्थः। पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे संख्या प्रत्ययार्थः, तथापि तस्याः प्रकृत्यर्थ प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं च 'द्वितीयान्ताद्यर्थे' इति फलितम् । तदाह-अप्रथमाविभक्त्यर्थ इति । समानेति । एतच्च शेषग्रहणाल्लब्धम् । अनेकं किम् , बहूनामपि यथा स्यात् । एतच्च मूल एव स्फुटीभविष्यति । अनिज्विधौ केवलग्रहणं ज्ञापकीकृत्यानेकग्रहणमिह सुत्यजमिल्याहुः । अन्यग्रहणं किम् , बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत, स्वपदार्ये हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्वाधते । असति त्वन्यग्रहणे कण्ठेकाल इत्यादौ व्यधिकरणपदे बहूनां समुदाये च सावकाशं बहुव्रीहिं स्वपदार्थ इवान्यपदार्थेऽपि नीलोत्पलं सर इत्यादी समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् , वाक्याथै मा भूत् । प्राहवती नदी । इह मा नासीरिति वाक्यार्थो गम्यते । अर्थग्रहणं किम् , यावता पदेन पदान्तरस्य वृत्त्यसंभवादेव पदार्थे भविष्यति । अत्राहुः-प्रकृत्यर्थविशिष्टप्रत्ययार्थाभिधानं यथा स्यात् । अन्यथा प्राधान्यात् प्रत्ययार्थमात्रं गृह्यत । इष्टापत्तौ तु चित्रगुरित्येतत् षष्ठ्यर्थसंबन्धमात्रपरं स्यात् । तथा च देवदत्तादेः सामानाधिकरण्यं न स्यादिति । अत्रेदमवधेयम्-'सुपा-' इत्येतनानुवर्तते । तेनावाने प्रथमान्तं मिथः