________________
प्रकरणम् १५] बालमनोरमा-तस्वबोधिनीसहिता। [१३१ प्रामः । उढरपोऽनड्वान् । उपहनकर खः । उद्धृतोदना स्थानी। पीताम्बरो हरिः । वीरपुरुषको प्रामः । प्रथमार्थे तु न। वृष्टे देवे गतः । म्यधिकरणानामपि न । पञ्चमि नमस्य । 'प्रादिम्पो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वा १३६०) अपवितपर्णः प्रपर्णः 'नमोऽस्त्यर्थानां वाच्यो वा छोत्तरपदलोपः' अत्र विग्रहवाक्ये प्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं प्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एका भावमहिना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं प्रामस्य विशष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः। अथ तृतीयार्थबहुव्रीहिमुदाहरतिऊढरथोऽनड्वानिति । ऊढो रथो येनेति विप्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति-उपहृतपशू रुद्र इति । उपहृतः पशुः यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति--उद्धृतौदना स्थालीति । उद्धृत ओदनो यस्या इति बहुव्रीहिः । अथ षष्ठ्यर्थबहुव्रीहिमुदाहरति-पीताम्बरो हरिरिति । पीतमम्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति-वीरपुरुषको ग्राम इति । वीराः पुरुषा यस्मिनिति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात् प्रथमैव । प्रथमार्थे तु नेति । अन्यपदार्थशब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव 'वेवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति । अनेकं प्रथमान्तमित्युक्तरिति भावः । प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिक प्रथमान्तं तस्य अन्यन प्रथ-नान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीही प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः । अत्र बहुव्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं प्रपतितम्। 'प्रादये गताद्यर्थे-' इति समासः । प्रपतितं पर्ण यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नमोऽस्त्यर्थानां । नमः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूताना लोपश्च वा वक्तव्य समस्यत इति पर्यवसन्नोऽर्थः । एवं च द्विपदबहुव्रीहिरबाध एव । ये तु 'सुप्सुपा' इत्यनुवर्त्य 'अनेकं सुबन्तं सुपा सह' इति व्याचक्षते तेषां तु द्विपदबहुव्रीहिर्दुर्लभ एवेति । द्वितीयादिविभक्त्यर्थे क्रमेणोदाहरति-प्राप्तमित्यादि । ग्रामकर्मकप्राप्तिकर्तृ उदकमिति विग्रहार्थः । उदककर्तृकप्राप्तिकर्मेति समासाथैः । विग्रहवाक्ये स इति प्रयोगे तु तस्याप्ययमेवार्थः । अनडुत्कर्तृकोद्वहनकर्मीभूतो रथः । रथकर्मकोद्वहनकर्ता तु समासार्थः । रुद्रसंप्रदानकोपहरणकर्मीभूतः पशुः, पशुकर्मकोपहरणसंप्रदानं तु समासार्थः । स्थाल्यवधिकोद्धरणकर्म ओदनः । प्रोदनकर्मकोद्धरणावधिः स्थाली समसार्थ इत्यादि।