________________
१३२ ]
सिद्धान्तकौमुदी |
[ बहुव्रीहिसमास
( वा १३६१) अविद्यमानपुत्रः अपुत्रः । 'अव्ययानां च' उच्चैर्मुखः । 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' । सप्तम्यन्तम् उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समास उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्पः कालो यस्य स कण्ठेकालः 1 इत्यर्थः । अविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । श्रपुत्र इति । अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । श्रव्ययानां चेति । बहुव्रीहिर्वाच्य इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम् तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरतिकण्ठेस्थः कालो यस्य स कण्ठेकाल इति । 'सुपि स्थः' इति कः । कण्ठे इह कर्मादीनां समासेनाभिहितत्वात्प्रथमा । ननु वाक्ये धात्वर्थं प्रति क्तप्रत्ययार्थस्य कर्तुः कर्मणो वा विशेष्यत्वाद् वृत्तावपि तथैवोचितेति प्राप्तोदकोढरथादौ उदककर्तृकप्राप्तीत्यादिवर्णनं तु न युज्यत इति चेत् । उच्यते - एकार्थीभावादिभिर्वृत्तौ विशिष्टार्थविषयकं शक्त्यन्तरमेव स्वीक्रियते, न त्ववयवशक्तिः इति नानुपपत्तिः । व्यपेक्षावादिभिस्त्वगत्या भिन्नैव व्युत्पत्तिः स्वीकार्या । किं च कर्तृविशिष्ट प्राप्तेः पदार्थत्वे तस्यैव नामार्थत्वादुदकस्य तदभेदो वाच्यः, स च बाधितः, न हि कर्तृविशिष्टा प्राप्तिरुदकमिति संभवति । श्रतएव 'बहूनां वृत्तिधर्माणां वचनैरेव साधने स्यान्महद्गौरवम्' इत्यादिना समर्थसूत्रे एकार्थीभावपक्ष एव प्रबल इत्यवोचाम । प्रथमार्थे तु नेति । शेषपदेन वा अन्यपदार्थ इत्यनेन वा अतिप्रसङ्गवारणाद् 'प्रथमाविभक्त्यर्थे' इति वचनं न कर्तव्यमिति भावः । व्यधिकरणानामित्यादि । इह शेषपदेनैव वारितोऽतिप्रसङ्ग इति 'समानाधिकरणानां बहुव्रीहिः' इत्यपि न कर्तव्यमिति भावः । ' यत्रान्यसमासो नोक्तः स शेषः' इति वृत्तिकारादीनां मते तु 'प्रथमान्तानामेव बहुव्रीहिः' इत्यलाभात्कर्तव्यमेवेदं वचनमिति बोध्यम् । प्रादिभ्य इति । प्रादिभ्यः परं यद्धातुजं तदन्तस्य पदान्तरेण बहुव्रीहिर्व्याख्येय इति सूत्रसिद्धानुवादः । वा चेति । इदं तु वाचनिकम् । पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थः । एतच्च प्रादीनामेव वृत्तौ विशिष्टार्थवृत्तितामाश्रित्य सुत्यजम् । नञोऽस्त्यर्थानामिति । नमः परेषामस्त्यर्थवाचिनां पदान्तरेण बहुव्रीहिर्व्याख्येयः अस्त्यर्थवाचिनां लोप
१ अव्ययानामित्यारभ्य अस्तितीरादयश्चेत्येतत्पर्यन्तः पाठो बहुत्र नोपलभ्यते ।
,