________________
प्रकरणम् १६ ] बालमनोरमा सत्त्वबोधिनीसहिता। [१३३ उष्ट्रमुखमिव मुखं यस्य स उमुखः । 'सहातविकारषष्ठ्याश्नोत्तरपदलोपश्च' । केशाना सनातरचूडा यस्य स केशचूना, सुवर्णस्य विकारः अलङ्कारो यस्य स सुवर्णावहारः । 'अस्तिषीरादयम' । भखीति विभक्तिप्रतिरूपकमव्ययम् । अस्तितीरा गौः । ८३१ लियाः पुंवाषितपुंस्कादनूङ् समानाधिकरणे लियामपूरणीप्रियादिषु । (६-३-३४) भाषितपुंस्कादनूङ् ऊडोऽभावोतिष्ठतीति कण्ठेस्थः । उपपदसमासः । 'श्रमूर्धमस्तकात्-' इति सप्तम्या अलुक् । कण्ठस्थ इति समस्तपदम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । तत्र कण्ठस्थत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तरपदं स्थेत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाल इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्-' इत्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति-उष्टमुखमिव मुखं यस्य स उष्टमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्टीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिव. शब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः। तत्र उष्ट्रमुखेत्येतद्बहुब्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । संघातविकारषष्ट्याश्चोत्तरपदलोपश्चेति । षष्ठ्यन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठ्यन्तादुत्तरपदस्य लोपश्च । केशानां संघातश्चूडा यस्य स केशचूड इति । संघातशब्दस्य लोपे रूपम् । सुवर्णस्य विकारोऽलंकारो यस्य स सुवर्णालंकार इति । अत्र विकारशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहावुपसंख्येया इत्यर्थः । अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं । वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीति 'स्वरादिनिपातमव्ययम्' इत्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये-'अस्विक्षीरादिवचनं न वाव्ययत्वात्' इति । लियाः पुंवत् । भाषितपुंस्कादनूडिति समस्तमेकपदं स्त्रिया इति षष्ठ्यन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे-भाषितपुंस्कादिति । अनूङित्यस्य व्याख्यानम्-ऊकोऽभाव इति । अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा । भाषितपुंस्कादिति दिग्योगे पञ्चमी । पर इति प्रथमान्तमध्याहार्यम् । तथा च भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति इत्यर्थः । अस्त्यर्थानां किम् , अनुपनीतपुत्रः । नमः किम् , निर्विद्यमानपुत्रः ।