________________
-
-
१३४ ] सिद्धान्तकौमुदी। [ बहुव्रीहिसमासऽस्यामिति बहुव्रीहिः । निपातनात्पशाम्या अनुरु, षष्ठ्याच लुक् । तुल्ये प्रवृत्ति निमिचे यदुक्रापुंस्कं तसात्पर उडोऽभावो यत्र तथाभूतस्य श्रीवाचकस्य शब्दस्य
वाचकसेव स्पं स्वासमानाधिकरणे मीलिङ्ग उत्तरपदे, न तु पूरण्या प्रियादौ पञ्चम्या लुकप्रसझे इत्यत आह-निपातनात् पञ्चम्या अलुगिति । इदमुपलक्षणम् । निपातनाद् अप्रथमान्तस्यापि बहुव्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा, अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि निया इति षष्ठ्यन्तस्य 'भाषितपुंस्कादनूल' इति यदि विशेषणं स्यात् , तर्हि भाषितपुंस्कादनूठ इति षष्ठी श्रूयेतेत्यत आह-षष्ट्याश्च लुगिति । निपातना. दित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कम् , तदस्यास्तीति अर्शायन् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'तृतीयादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह-तुल्ये प्रवृत्तिनिमित्त इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः । स्त्रिया इति षष्ठ्यन्तं न स्त्री पत्ययपरमिति भावः । नन्विह 'सुपा' इत्यननुवृत्तावपि सुबित्येतदनुवर्तते । तथा चास्तिक्षीरेति प्रयोगो दुर्लभ इत्याशय तं साधयति-विभक्तिप्रतिरूपकमिति । स्त्रियाः पंवत । निपातनादिति । एतच पूर्वत्रापि योज्यम् । अन्यथा व्यधिकरणानां बहुव्रीहिः खरसतो न सिघ्येत् । लुगिति । अनूदिति प्रथमान्तम् । षष्ठ्यर्थे प्रथमेति हरदत्तः। एवं च सूत्र केषांचिद् 'अनूलः समानाधिकरणे' इति षष्ठ्यन्तपाठोऽसांप्रदायिक इति भावः । तुल्य इत्यादि । 'भाषितः पुमान् यस्मिन्' इत्यादिव्याख्यानादयमर्थो लभ्यत इति 'तृतीयादिषु भाषितपुंस्कम्-' इत्यत्रोपपादितम् । यद्यत्र 'भाषितः पुमान्येन तद्भाषितपुंस्कम्' इत्युच्येत तर्हि कुटीभार्यः, द्रोणीमार्य इत्यादावतिप्रसङ्गः स्यात् । भवति हि कुटशब्दो घटे पुंल्लिो, गेहे तु स्त्रीलिङ्गः । द्रोणशन्दस्तु परिमाणविशेषे पुँल्लिङ्गो, गवादन्या तु स्त्रीलिङ्ग इति । अकोऽभावो यति । यदि तु ऊडन्योऽनूडिति पर्युदासः स्यात् तर्हि टाबाद्यन्तमेव गृह्यत । ततः किमिति चेत् , दरदोऽपत्यं दारदः । 'धम्मगध-' इत्यणा, तस्य बियाम् 'अतश्च' इति लुक, दरद् । सा चासौ वृन्दारिका च दारदवृन्दारिकेल्यादि न सिध्येत् । न पत्र दर्शनीया भार्या यस्य स दर्शनीयभार्य इत्यादाविव स्त्रीप्रत्ययः कश्चिदस्तीति भावः । ननु 'न कोपधाया ऊच' इत्येव सूच्यतामिति चेत् , न । बाधकबाधनायेंन 'पुंवत्कर्मधारय-' इत्यनेन वामोरूभार्येति कर्मधारये पुंवद्रावापत्तेः । पृथकप्रतिषेधसामर्थ्यात्सिदान्ते तु न दोषः । निया इत्यस्य श्रीप्रत्ययपरता वारयति-स्त्रीवाचकस्येति । 'बीप्रत्ययस्य पुंवद्भावः' इत्युक्ते तु श्रीप्रत्ययलोप इत्येवार्थः पर्यवस्पतीति दारदवृन्दारिकेति न सिध्येत् । किं च पटुमार्य इत्यत्र