________________
प्रकरणम् १६] बालमनोरमा तत्त्वबोधिनीसहिता। [१३५ च परतः । 'गोलियोः- (स १५६) इति इस्वः । चित्रा गायो यस्खेति लौकिकविग्रहे 'चित्रा अस् गो प्रस्' इत्यनौकिकविग्रहे चित्रगुः । रूपवनार्यः। चित्रा पुवदिति रूपातिदेशः पुंस इव पुंवदिति षष्ठ्यन्ताद्वतिः । तदाह-पुंवाचकस्येव रूपमिति । स्त्रियामिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह-स्त्रीलिङ्गे उत्तरपद इति । अपूरणीप्रियादिष्वित्येतद्याचष्टे-न तु पूरण्यां प्रियादी च परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति किम् , कुटीभार्यः । अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुल्लिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदाद् । स्त्रीप्रत्ययः पुवत्स्यादित्युक्त तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लापे तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वादुकारस्य यण स्यात् । हस्ख इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य 'गोत्रियोः' इत्युकारो ह्रख इत्यर्थः । ननु चित्रा गाव इति लौकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस् इत्यत्र पूर्वसवर्णदीर्घ गो अस् इत्यत्र पूर्वरूप च एकादेशे कृते तस्य परादिवत्त्वेन आसो लुकि चित्रशब्दे अकारो न श्रयेत चित्रगुरित्यत्र उकारश्च न श्रयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्वाभावाल्लुक् न स्यादित्यत आह-चित्रा अस् इति । गोशन्दस्य स्त्रीलिङ्गत्वात् तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या 'अन्तरङ्गानपि विधीन् बहिरको लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्थात् सुन्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ हखत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्य इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनहखः। उत्तरपदनिमित्ताया डीषो निवृत्तेः 'अचः परस्मिन्-' इति स्थानिवद्रायण स्यात् । अपि च वतण्डस्यापत्यं स्त्री क्त्तण्डी 'वतण्डाच' इति यम्, 'लुक स्त्रियाम्' इति तस्य लुक्, शारिवादित्वान् डीन् , वतण्डी चासौ वृन्दारिका च वातएव्यकृन्दारिका । अत्र पुंवद्भावेन डीनो निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वाद् 'लुक् मियाम्' इति यत्रो लुक् प्रसज्येतेति भावः । ह्रस्व इति । अनेकमिति प्रथमानिर्दिष्टत्वात् 'प्रथमानिर्दिष्टम्-' इति “एकविभक्ति च-' इति वा गोशब्दस्योपसर्जनत्वादिति भावः । चित्रा असिति । 'अन्तरङ्गानपि-' इति न्यायादिह पूर्व सवर्णदीर्थो न प्रवर्तते । अन्यथा एकादेशस्य परादित्वेन सुपो लुकि चित्रगुरित्यत्र भकारो न लभ्येतेति भावः।