________________
१३६ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासजरती गौर्यस्येति विग्रहे भनेकोतर्बहूनामपि बहुव्रीहिः । अत्र केचित्-चित्राजरतीगुः, जरतीचित्रागुर्वा । एवं दीर्वातन्वीजङ्गः, तन्वीदी_जयः । त्रिपदे बहुव्रीही प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् पूर्वपदस्वाभावात् । उत्तरपदशग्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशग्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमातिप्यते । 'मानङ् ऋतः- (सू ६२१) इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुः रूपवतीशब्दस्य पुंवत्त्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप् सुपा' इत्येकत्वस्य विवक्षितत्वादित्यत आह–अनेकोक्लेरिति । शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात् । ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद् द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति । गां प्रति चित्रात्वस्य जरतीत्वस्य च विशेषणत्वाविशेषाद् अन्यतरस्य 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घ तन्न्यौ जले यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशझ्याह-त्रिपद इति । उत्तरपदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, न तु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मध्यमपदस्य पुंवत्त्वं दुर्वारम् , उत्तरपदपरकत्वसत्त्वादित्यत आह-द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपालभ्यते। समासप्रथमावयवपदमेव पूर्वपदम् । न तु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आहउत्तरपदशब्दोहीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीही नास्ति पुंवत्त्वमिति युज्यते, उत्तरपदपरकत्वाभावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यत्येव पुंवत्त्वम्, 'स्त्रियाः पुंवत्' इत्यत्र तु पूर्वपदस्याश्रवणाद् अनुवृत्त्यभावाञ्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद् गम्यत इति वक्तव्यम् । तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति । इह स्त्रियाः पुंवत्-' इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नार्थागम्यत इत्यर्थः । कुत इत्यत आहनेहेति । अत्रैव सूत्रे पट्वीट्टयौ भार्ये अस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्य इति भाष्योदाहरणादिति भावः । आनकिति । तथा च ‘समर्थ-' सूत्रे भाष्ये होतृपोतृ.