________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३७ इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चिनाजरद्गुः' इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरचित्रगुः । कर्मधारयोत्तरपदे तु आनवृत्त इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वे 'होतृपोतृनेष्टोद्गातारः' इत्युपान्त्यस्य नेष्टुरानडुदाहृतः 'समर्थः पदविधिः' इत्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावाद् आनङ् नोपपद्येत । तस्मानावश्यम् उत्तरपदे विहितं कार्य पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति । पूर्वपदानाक्षेपेणेत्यर्थः । उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः । पुंवदेवेति । रूपमिति शेषः । तदेव दर्शयति-चित्राजरदगुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम् । मध्यमेन व्यवधानाद् उत्तरपदपर कत्वाभावाच्चेति भावः । इत्यादीति । जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घातनुजङ्घः । ननु ‘ानकृतः-' इत्यत्र 'होतृपोतृनष्टोद्गातारः' इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्-' इति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत
आह–अत एवेति । 'स्त्रियाः पुंवत्-' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि चित्राजरद्गुरितीत्यनन्तरं प्रयोगमिति शेषः । भाष्यमित्यस्य पट्वीमृदुभार्य इति प्रकृतसूत्रस्थभाष्यमित्यर्थः । सूचयतीति शेषः । 'स्त्रियाः पुंवत्-' इति प्रकृतसूत्रभाष्ये हि पठ्यौ मृयौ भार्ये यस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्य इत्युदाहृतम् । तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वम् , द्वन्द्वस्य' परवल्लिातानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वम् । मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाभावात् । मध्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच न तस्मिन्परे पुंवत्त्वसंभवः । मृद्वीशब्दस्य तु केंवलस्य भाषितपुंस्कत्वाद् उत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः । 'स्त्रियाः पुंवत्-' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाभावेन पुंवत्त्वाप्रवृत्तेः तदसंगतिः स्पष्टैव । ततश्च पट्वीमृदुभार्य इति भाष्यं चित्राजरद्गुरिति प्रयोग गमयतीत्यर्थः । कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधारयः । 'पुंवत्कर्मधारय-' इति जरतोशब्दस्य पुंवत्त्वाद् ङीपो निवृत्तिः । ततश्च जरचित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरचित्राशब्दस्य स्त्रियाः पुंवत्-' इति पुंवत्त्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती नेष्टोद्गातार इत्यत्र चतुर्णा द्वन्द्वे तृतीयस्यानङ् उदाहृतः । पूर्वपदाक्षेपे तु सन्न सिध्येत् । न त्यत्र नेष्टा पूर्वपदम् , होतुरेव पूर्वपदत्वादिति भावः। अतएवेति ।