________________
१३८ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासचित्रजरद्वीकः। नियाः किम्-ग्रामकि कुलं रष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम्-गङ्गाभार्यः । अनुङ् किम्-वामोरूभार्यः । समानाधिकरणे किम्-कल्याएया माता कल्याणीमाता । त्रियां किम्-कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु-८३२ अप्पूरणीप्रमाण्योः । (५-४-११६.) पूरणार्थप्रत्ययान्तं चासौ गौश्चेति कर्मधारये 'गोरतद्धितलुकि' इति टचि प्रवाशे 'पुंवत्कर्मधारय-' इति जरतीशब्दस्य पुंवत्त्वे डीपो निवृत्तौ टित्त्वाद् डीपि जरद्र्व शब्दः । ततश्चित्रा जरगवी यस्येति कर्मधारयोत्तरपदके बहुव्रीही 'नतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्-' इति पुंवत्त्वे चित्रजरगवीक इति रूपमित्यर्थः । स्त्रियाः किमिति । षष्ठ्यन्तस्य प्रश्नः । ग्रामणि कुलं दृष्टिरस्य ग्रामणिपिरिति । ग्रामणीशब्दस्य नपुंसकत्वे 'हस्वो नपुंसके-' इति ह्रस्वे प्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । प्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकहखनिवृत्तौ प्रामणीकुलमिति स्यादिति भावः । गङ्गाभार्य इति । अत्र गङ्गाशन्दस्य नित्यत्रीलितया भाषितपुंस्कत्वाभावाद् न पुंवत्त्वमिति भावः । वामोरूभार्य इति । वामौ सुन्दरौ ऊरू यस्या इति बहुव्रीहिः । 'संहितशफलक्षणवामादेश्व' इत्यूत् । तदन्तस्य पुंवत्त्वे ऊगे निवृत्तौ वामोरुभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः । त्रियां किमिति । सप्तम्यन्तस्य प्रश्नः । कल्याणी प्रधानं यस्य स कल्याणीप्रधान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्त्वं नेति भावः । पूरण्यां त्विति । पुंवत्त्वनिषेधोदाहरणे विशेषो वक्ष्यत इति शेषः । अप्पूरणी । अबिति छेदः । 'बहुव्रीही सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देपूर्वपदानाक्षेपादेवेत्यर्थः । चित्राजरदिति । द्वन्द्वान्तर्गतजरच्छन्दस्योत्तरपदत्वेऽप्यसामानाधिकरण्यान्न टापो निवृत्तिः । न चैवमपि द्वन्द्वात्मकस्म पूर्वपदस्य समानाधिकरणोत्तरपदपरत्वात्पुंवदावे टानिवृत्तिर्दुवरिति वाच्यम् । द्वन्द्वान्तर्गतचित्रजरच्छब्दयोः स्त्रीप्रत्ययप्रकृत्योः प्रत्येकं भाषितपुस्कत्वेऽपि द्वन्द्वात्मकस्य पूर्वपदस्यातथात्वात् । द्वयोरपीति । पूर्वपदान्तर्गतमुत्तरपदमाश्रित्य प्रथमस्यापि पुवद्भाव इति भावः । जरश्चित्रेति । 'पूर्वकालैक-' इति समासः । लिङ्गविशिष्टपरिभाषया जरग्रहणन जरतीशब्दस्यापि ग्रहणात् । चित्रजरद्रवीक इति । जरती चासौ गौश्च जरद्वी, 'गोरतद्धित-' इति टचि टित्वान् डीप् । चित्रा जरद्वी यस्येति बहुव्रीही 'नवृतश्च' इति वक्ष्यमाणः कप्। वामोरुमाये इति । 'संहितशफलक्षण