________________
प्रकरणम् १६ ] बालमनोरमा-तस्वबोधिनीसहिता। [१३६ यस्थीलिङ्गं तदन्ताप्रमाण्यम्ताव बहुव्रीहेरम् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपत्रमा राजयः । बी प्रमापी यस्य स चीप्रमाणः । 'पुंवडावप्रतिषेधोऽप्रत्ययम प्रधानपरण्यामेव' (पा ३३१६-१९१०)। रात्रिः शात् पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्यते। तदाह-पूरणार्थेत्यादिना। अपस्यादिति। समासान्तस्तद्धित इत्यपि बोध्यम् । पश्चमीति । पञ्चानां पूरणीत्यर्थः । 'तस्य पूरणे डट्' 'नान्तादसंख्यादेः-' इति तस्य मडागमः । टित्वाद् डीप । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीही कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः, अप् समासान्तस्तद्धितः, टाप् , 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा न वा । नाद्यः, तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः, पञ्चम्या रात्रेरन्यपदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमी रात्रिं विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्यासंगत्यापादनादिति चेत्, सत्यम्पञ्चानां रात्रीणाम् उद्भतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रे प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुष्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनं तु अवयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसंज्ञासूत्रे प्रपश्चितम् । अथ प्रमाण्यन्तादन्विधेरुदाहरणमाह-स्त्री प्रमाणी यस्य सस्त्रीप्रमाण इति । प्रमाणशब्दोऽत्र करणल्युरन्तो विशेष्यनिनः, टित्त्वाद् जीप । बहुव्रीहौ सति अप्प्रत्यये 'यस्येति चं' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यत्रीलिङ्गत्वादभाषितपुंस्कत्वान पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति । 'त्रियाः पुंवत्-' इति सूत्रे 'अप्पूरणी-' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीपञ्चमा रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यम् , बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह-रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति । कल्याणीपञ्चमा रात्रय इत्युकोवामादेश्व' इत्यूत् । प्रधानमिति । भावल्युडन्त नित्यनपुंसकम् । पञ्चमीति । 'तस्य पूरणे' इति डट् 'नान्तादसंख्यादेः- इति डटो मडागमः । 'टिड्ढा-' इति की। प्रमाणीति करणे ल्युट्, तदन्तस्य विशेष्यनिनत्वात् स्त्रियां ली । कर्य तर्हि 'प्रमाणायां स्मृतौ इति शावरभाष्यमिति चेत् । अत्र मधः-'प्रमाणमयते याति मूलभूतां श्रुतिं यतः । किबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते' इत्याहुः । तत्रायतेः किपि 'हखस्य पिति कृति-' इति तुकि टाब् दुर्लभः, तथाप्यागमशास्त्रस्यानित्यत्वात्तु नेति बोध्यम् । किविवाचरति किन्-विजित्यर्थ इति वा व्याख्येयम् । अन्ये तु प्रमाणं वेदखद्वदाचरतीत्याचारकियन्तात्प्रमाणशब्दात्पचायचि टावित्याहुः ।