________________
१४० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासपूरणी वाच्या चेत्युकोदाहरणे मुख्या । अन्यत्र तु-८३३ नतश्च । (५-४-१५३) नयुत्तरपदादृदन्तोत्तरपदाच बहुप्रीहेः कस्यात् । पुंवझावः । ८३४ केऽणः । (७-४-१३) के परेऽयो हवः स्यात् । इति प्राले-८३५ न कपि । (७-४-१४) कपि परे भयो हस्वो न स्यात् । कल्याणपञ्चमीक: पतः । अत्र तिरोहितावयवभेदस्य परस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । प्रप्रियादिषु किम्-कल्याणीप्रियः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्बटकतया यथा प्रथमाद्याश्चतस्रो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यमिति भावः । अन्यत्र त्विति । कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावाद् अप्राधान्यादप्प्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः । नतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीही सक्थ्यक्ष्णोः ' इत्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्भपां विशेष्यते। तदन्तविधिः । 'उरप्रभृतिभ्यः-' इत्यतः कवित्यनुवर्तते । तदाह-नयुत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथा च कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीही सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः । नद्यन्ताद् बहुव्रीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्याने तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्या रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः । ह्रस्वः स्यादिति । 'शुदप्राम्-' इत्यतस्तदनुवृत्तेरिति भावः । न कपि । अणो ह्रस्व इति । 'केऽणः' इत्यतः 'शूदृप्राम्-' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यं दुरिमित्यत आह-अत्र तिरोहितेति । रात्रेः तत्प्रवेशाभावाद् अप्राधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति-बहुकर्तृक इति । बहवः कर्तारो यस्येति विग्रहः । तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रधानपूरण्यामेवेति । प्रधाने कार्यसंप्रत्ययान्यायसिद्धमिदम् । नतः । तपरत्व स्पष्टार्थम् । नद्युत्तरपदादिति । नद्यन्तादिति नोक्तम् , कप्रत्ययेन सह समासे कृते