________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४१ दुभंगा, भक्तिः, सचिवा, खसा, कान्ता, चाम्ता, समा, चपला, दुहिता, वामा, अबला, तनया। 'सामान्ये नपुंसकम्' दृढं भक्रिर्यस्य स दृढभक्तिः। बीत्वविवक्षायां तु दृढाभक्तिः । ८३६ तसिलादिष्वाकृत्वसुचः। (६-३-३५) तसिलादिषु कृत्वसुजन्तेषु परेषु सियाः पुंवत्स्यात् । परिगणनं कर्तव्यम्, अव्याप्त्यतिब्यातिपरिहाराय । 'त्रतसौ' (वा ३६१८) । 'तरसमपौ' (वा ३६१६)। 'घरट्प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति-अप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठतिप्रिया मनोशेत्यादि । ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह-सामान्ये नपुंसकमिति । आश्रित्येति शेषः । दृढमिति । पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः । ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापति, लिङ्गविशेषस्याविवक्षितत्वात् , वेदाः प्रमाणमितिवत् । अत्र चार्थे पस्पशाहिकभाष्ये 'शक्यं च अनेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह-स्त्रीत्वविवक्षायां त्विति । वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेनियमादिति भावः । तसिलादिष्वाकृत्वसुचः । 'स्त्रियाः पुंवत्-' इत्यनुवर्तते।ा कृत्वसुच इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः । तदाह-तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रिया पुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुश इत्यत्र पुंवत्त्वं न स्यादित्यव्याप्तिः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यस्य 'षष्ठ्या रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयोः परतः पट्वीदेश्येत्यत्र च शुभ्रारूप्येत्यत्र च पुंवत्त्वं स्यादित्यतिव्याप्तिरित्यत श्राह-परिगणनमिति । अव्याप्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिरव्याप्तिः । अनिष्टस्थले प्रवृत्तिः अतिव्याप्तिः । बहुव्रीहेरनद्यन्तत्वात् । उत्तरपदं तु नद्यन्तं भवत्येव, 'समासे अन्तः समासान्तः' इति पक्षाश्रयणादिति बोध्यम् । दृढमिति । अदायनिवृत्तिमात्रपरत्वेनात्र दृढशब्द. प्रयोगान लिङ्गविशेषविवक्षेति भावः । लिङ्गविशेषविवक्षायां तु दृढा भक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः । तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तेष्वित्यर्थः । भव्याप्त्यतिब्याप्तिपरिहारायेति । वृकतिरजथ्या बहुश इत्यत्राव्याप्तिः, तसिलादि