________________
१४२ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासजातीयरी' (वा ३९२०)। 'करुपन्देशीयरौ' (वा ३१२१)। 'रूपप्पारापी' (वा २३२२)। 'थाल्' (वा ३९२३)। तिल्थ्यनी' (वा ३३२५)। बहीषु बहुत्र । बहुतः। दर्शनीयतरा । दर्शनीयतमा । 'घरूप-' (सू १८५) इति वषयमाणो इस्वः परत्वावमा बाधते । पट्वितरा । पट्वितमा । पटुचरी। पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । परिगणनप्रकारमाह-त्रतसावित्यादिना । बहीषु बहुत्र इति । बह्वीष्वित्यर्थे बहीशब्दात 'सप्तम्यानल्' इति त्रलि पुंवत्त्वे ठीषो निवृत्ती बहुत्रेति रूपमित्यर्थः । बहुत इति । 'पञ्चम्यास्तसिल्' इति बह्रीशब्दात् तसिल्, पुंवत्त्वाद् ीषो निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दाद् 'द्विवचनविभज्योपपदे तरप्-' इति तरप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । दर्शनीयतमेति । आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दाद् 'अतिशायने तमविष्ठनौ' इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पवी शब्दात्तरपि तमपि च पवीतरा पट्वीतमा इत्यत्रापि पुंवत्त्वे डोषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह-घरूपेति । तथा च हस्वेन पुंवत्त्वे बाधिते सति डीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पवितमेति रूपमित्यर्थः । पटुचरीति । पट्वीशब्दाद् 'भूतपूर्वे चरट्' इति पुंवत्त्वे नीषो निवृत्तिरिति भावः । पूर्व पटवीत्यर्थः । पटुजातीयेति । पट्वीशब्दात् 'प्रकारवचने जातीयर्' इति पुंवत्त्वे जीषो निवृत्तिरिति भावः । पटुसदृशीयर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ-' इति दर्शनीयाशब्दात् कल्पप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । 'ईषदसमाप्तौ-' इति दर्शनीयाशब्दाद् देशीयर् । पुंवत्त्व टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपेति । दर्शनीयाभन्दात् 'प्रशंसायां रूपप्' इति रूपपि पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दाद् याप्ये पाशप् । पुंवत्त्वे टापो निवृत्तिरिति कृत्वसुच्पर्यन्तेषु तिल्थ्यन्शसां पाठाभावात् । पट्वीदेश्या शुभ्रारूप्य इत्यत्रातिव्याप्तिः, 'ईषदसमाप्ती-' इति देश्यस्य 'षष्ठ्या रूप्य च' इति रूप्यस्य च तत्र पाठात् , भतस्तनिवारणाय परिगणनमित्यर्थः । परिगणितान् ऋतसादीन् क्रमेणोदाहरतिबहीष्विति । यद्यपि बह्वादिषु षो वैकल्पिकत्वात्तदभावे बहुत्रेत्यादि सिध्यति, तथापि पक्षे बहीनेत्यायनिष्टवारणायेदम् । ततस्तत्रेति प्राचोकमुदाहरणमत्रोपेक्षितम् । 'सर्वनानो वृत्तिमात्रे-' इत्यनेन गतार्थत्वादिति मनोरमायां स्थितम् । पद्वितरेति। प्राथा तु पठुतरेत्युदाहृतम् , तत्प्रामादिकमिति भावः । पटुचरीति । 'भूतपूर्वे चरद् ।