________________
प्रकरणम् १६] बालमनोरमा-तस्वबोधिनीसहिता। [१४३ बहुथा । प्रशस्ता वृकी वृकतिः । प्रजाभ्यो हिता मजल्या । 'शसि बह्वल्पार्थस्य पुंवनावो वक्तव्यः' (पा ३९२६) बहीम्यो देहि बहुशः, अल्पाभ्यो देहि अल्पशः । 'स्वतखोर्गुणवचनस्य' (वा ३१२७) शुक्राया भावः शक्रत्वम्, शुक्रता । गुणवचनस्स किम्-का भावः कीस्वम् । 'शरदः कृतार्थता' भावः। कुत्सितत्वेन द्रष्टुं योग्येत्यर्थः । बहुथेति । बह्रीशब्दात् प्रकारवचने थाल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति । प्रशंसायामित्यनुवृत्तौ 'वृकज्येष्ठाभ्यां तिलतातिलौ च च्छन्दसि' इति वृकीशब्दाद् जातिलक्षणडीषन्तात् तिल । पुंवत्त्वे ङीषो नित्तिरिति भावः । अजथ्येति । तस्मै हितम्' इत्यधिकारे 'अजाविभ्यां थ्यन्' इलाजाशब्दात् थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृकतिरजथ्या' इत्यत्र 'जातेश्च' इति पुंवत्त्वनिषेधो न, परिगणनसामर्थ्यात् । शसीति । शसि परे बहुर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः। तसावित्यादिपरिगणितेष्वनन्तर्भावाद वनमिदम् । बह्वीभ्य इति । बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्या ' इति बहीशब्दात् शस् , पुंवत्त्वे डोषो निवृत्तिरिति भावः । संप्रदानकारकत्वस्फोरणाय देहीति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः । पुंवत्त्वे टापो निवृत्तिरिति भावः । त्वतलोरिति । त्वप्रत्यये तल्प्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्यमित्यर्थः । कीत्वमिति । कींशब्दस्य क्रियानिमित्तत्वान गुणव चनत्वमिति भावः । 'आकडारात्-' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसः नामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञक भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्' इति सूत्रभाष्यस्थं सत्त्वे निविशतेऽपैति-' इत्यादि गुणलक्षणं तु नात्र प्रवर्तते । अत एव “एक तद्धिते व इति सूत्रभाष्ये एकस्या भाव एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाभावात् त्वतलोर्गुणवचनस्य' इत्यप्राप्तं पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते । सखीत्वमित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतः अर्थः कृत्यं यया सा कृतार्था, तस्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम् । कृतार्यशब्दस्य पटुजातीयेति । 'प्रकारवचने जातीय' । दर्शनीयरूपेत्यादि । 'प्रशंसायां रूपप्' । 'याप्ये पाशप्' बहुथेति । 'प्रकारवचने थाल्' । तत्र हि 'किंसर्वनाम बहुभ्यः-' इत्यधिकृतम् । वृकतिरिति । 'वृकज्येष्ठाभ्यां तिलतातिलौ च च्छन्दसि' इति तिल । अजथ्येति । 'अजाविभ्यां थ्यन' । शसीति । 'बह्वल्पार्यात्-' इति यः शस् , स तसिलादिषु ज्ञातव्य इत्यर्थः । त्रतसादिषु परिगणनं कर्तव्यमिति यावत् । त्वतलोर्गुणवचनस्येति । गुणस्वेति वसाव्ये वचनग्रहणं प्रसिद्धगुणपरिग्रहार्थम् ।