________________
११४ ] सिद्धान्तकौमुदी। [ तत्पुरुषसमासऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः, महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम्-महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोनः 'सन्महत्-' (सू ७४०) इति समासो ग्रहीष्या इति चेत्, महाबाहुः न स्यात् । तस्मात् 'लक्षणप्रतिपदोक्कयोः प्रतिपदोकस्य-' (प ११४) इति परिभाषा नेह प्रवर्तते , समानाधिकरणग्रहणसामर्थ्यात् । सति महत आत्त्वं स्याद् उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति । अत्र षष्ठी. समासे आत्त्वनिवृत्त्यर्थ समानाधिकरणग्रहणमिति भावः। ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशास्त्रत एव निवर्तितत्वात् । 'सन्महत्-' इत्ययं समासस्तु सन्महदादिशब्दं समस्यमानं विशिष्योचार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रतिपदोक्तपरिभाषया 'आन्महतो जातीये च' इत्यत्र 'सन्महत्-' इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते--लाक्षणिकमित्यादिना । परिहरति-महाबाहुन स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदोक्लत्वाभावात्तदुत्तरपदे परे आत्त्वं न स्यात् , अतः समाना धिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेदुरित्वाद् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह-तस्मादिति । तच्छ. ब्दार्थमाह- समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तइत्याह-आकारोऽन्तादेशः स्यादिति । इहोत्तरपदाधिकारे पूर्वपदमाक्षिप्यते । तच्च महता विशेषितमिति तदन्तविधिलभ्यते । 'प्रहणवता-' इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात् । तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति । परममहत्परिमाणमित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्युपगम्यत इति न तत्रात्वप्रसक्तिरिति वृद्धाः। यत्तु वर्धमानेनोक्तम्-'इष्टकेषीकामालानाम्-' इत्यत्र तदन्तविध्युपसंख्यानसामर्थ्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत प्रात्वं नेति, तद्भाष्यकैयटविरुद्धम् । तथा हि 'येन विधिः-' इति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्केष्टकचितमिति भाष्ये उदाहृतम् , कैयटेन च पदशब्देन उत्तरपदं गृह्यत इति व्याख्यातम् । एतदेवार्थतः काशिकायामुपनिबद्धम्, न तु 'इष्टकेसीका-' इत्यत्र कात्यायनोक्तमुपसंख्यानमस्ति । ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिनेव परे प्रात्वं स्यान्नान्यत्रेति किमनेन समानाधिकरणग्रहणेनेत्यत आह-- महापाहुरिति । बहुव्रीहिरयम् , स च सामान्यशास्त्रनिर्वृत्तत्वालाक्षणिक इति भावः