SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [११३ . (५-४-१०४) ब्रह्मान्तात्तपुरुषादृस्यात्समासेन जानपदत्वमाख्यायते चेत् , सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः। ८०६ कुमहद्भयामन्यतरस्याम् । (५-४-१०५) श्राभ्यां ब्रह्मणो वा टन्स्यात्तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः , कुब्रह्मा । ८०७ आन्महतः समानाधिकरणजातीययोः । (६-३-४६) महत श्राकारोअञ्जलिशब्दः अञ्जलिपरिमितधान्यादौ वर्तते, केवलस्याजलेः मूल्यत्वासम्भवात् । परिमाणत्वात् ठञ् । 'अध्यर्ध-' इति तस्य लुक् । ब्रह्मणो जानपदाख्यायाम् । जनपदे भवो जानपदः, भावप्रधानो निर्देशः। तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात् समासेनेति लभ्यते, तदाह-समासेन जानपदत्वमाख्यायते चेदिति । जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट्रे ब्रह्मेति । ब्रह्मशब्दोऽत्र पुँल्लिङ्गः । ब्रह्मा विप्रः । 'वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच ,टिलोपः, 'परवल्लिङ्गम्-' इति पुंस्त्वम्। जानपदेति किम् ? देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम् । कुब्रह्मेति । टजभावे रूपम् । 'कुगतिप्रादयः' इति समासः। कुब्रह्म इति । टचि रूपम् , टिलोपः। अथ महत्पूर्वस्य टविकल्पमुदाहारष्यन् विशेषमाह-प्रान्महतः। 'अलुगुत्तरपदे' इत्युत्तरपदाधि. कारस्थमिदं सूत्रम् । उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति, न तु जातीय इति, तस्य प्रत्ययत्वात् , तदाह-महत प्रात्त्वमित्यादिना। महाब्रह्म इति। महांश्चासौ ब्रह्मा चेति विग्रहः । 'सन्महत्-' इत्यादिना समासः । आत्त्वम् । सवणेदीर्घः । 'कुमहद्भ्याम्--' इति टच । टिलोपः, 'परवल्लिङ्गम्-' इति पुंस्त्वम् । महा. ब्रह्मेति । टजभावे आवे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति---महादेव इति । जातीये उदाहरति-महाजातीय इति । महत्सदृश इत्यर्थः । प्रकारवचने जातीयर , आत्त्वम् , सवर्णदीर्घः । समानाधिकरणे किमिति । 'अान्महतो जातीये च' इत्येवास्तु । चकारादुत्तरपदसमुच्चये अतद्धितलुकीत्येवेति । एतच्च पूर्वसूत्रेऽपि बोध्यम् । अञ्जलिभ्यां क्रीत इति। नात्राञ्जलिः पाणिद्वयम् , तस्य मूल्यत्वासंभवात् , कि तु अञ्जलिपरिमितो व्रीह्यादिविवक्षितः । ततश्च परिमारात्वाद् द्यञ्जलिरित्यत्र ठञ् । तस्य तु 'अध्यर्धपूर्व-' इति लुक् । ब्रह्मणो । जनपदे भवो जानपदः । 'येकयोः-' इतिवद्भावप्रधानो निर्देशस्तस्याख्यायां प्रत्यासत्त्या समासेनेत्येतल्लभ्यते, तदाह-समासेन जानपदत्वमिति । कस्येत्याकाङ्क्षायां संनिधानाद् ब्रह्मण इति लभ्यते। सुराष्ट्रब्रह्म इति । 'सप्तमी' इति योगविभागात्समासः । जानपदेति किम् , देवब्रह्मा नारदः। कुब्रह्म इति । ब्राह्मणपर्यायो ब्रह्मन्शब्दः । प्रान्महतः । तकार उच्चारणार्थः, न तु सर्वादेशार्थ
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy