________________
११२]
सिद्धान्तकौमुदी। [तत्पुरुषसमास१०८०) इत्यत्र अचि इस्यस्यापकर्षमाखलादेन लुक् । पञ्चनावप्रियः । द्विनावम् त्रिनावम् । अतद्धितलुकीति किम्-पञ्चभिनौभिः क्रीतः पञ्चनौः । ८०२ अर्धाश्च । (५-४-१००) अर्धाचावष्टम्स्यात् । नावोऽर्धम् अर्धनावम् । क्रीबस्वं लोकात् । ८०३ खार्याः प्राचाम् । (५-४-१०१) द्विगोरर्धाच खार्याष्टज्वा स्यात् । द्विखारम्, द्विखारि । अर्धखारम्, अर्धखारी । ८०४ द्वित्रिभ्यामञ्जलेः। (५-४-१०२) टज्वा स्याद् द्विगौ । द्यालम्, व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामअलिभ्यां क्रीतो बञ्जलिः । ८०५ ब्रह्मणो जानपदाख्यायाम् लुंगनपत्य इत्यत्रेति । अपकर्षणादिति । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रादित्यर्थः । पश्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टच , आवादेशः । द्विनावमिति । द्वयोः नावोः समाहार इति विग्रहे द्विगुः, टच् , आवादेशः, 'स नपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विग्रहः, द्विनाववत् । पञ्चनौरिति । तद्धितार्थ समास:। श्राीयष्ठक्, 'अध्यर्ध-' इति लुक् । अर्धाच्च । अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषादृजित्यर्थः । अर्धनावमिति । 'अधं नपुंसकम्' इति समासः, टच , आवादेशः । अत्र 'परवल्लिङ्गम्-' इति स्त्रीत्वमाशङ्कयाह-क्लीबत्वं लोकादिति ।खार्या प्राचाम्। खारीशब्दान्ताद् द्विगोः, अर्धपूर्वकाद् खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः। टच् , 'यस्येति च'। ‘स नपुंसकम्' इति नपुंसकत्वम् । टजभावपक्षे ‘स नपुंसकम्' इति नपुंसकत्वानपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः । 'अर्ध नपुंसकम्' इति समासः, टच् , 'यस्येति च' । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत् समासः । टजभावपक्षे 'परवल्लिङ्गम्-' इति स्त्रीत्वम् । एकविभक्तावषष्ठयन्तवचनादुपसजेनत्वाभावान ह्रस्वः । अर्धखारि इति कचिद् ध्रस्वान्तपाठः, तदा क्लीबत्व लोकात् , ततो नपुंसकह्रस्वः। द्वित्रिभ्यामअलेः शेषपूरणेन सूत्रं व्याचष्टे-टज्वा स्यादिति। द्विगाविति । द्वयञ्जलमिति । द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच , 'यस्येति च' 'स नपुंसकम्' । द्वयञ्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकहस्वत्वम् । अतद्धितलुकीत्येवेति । अनुवर्तत एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति। इति रूप्यः । पञ्चमौरिति । आीयष्ठक् । 'अध्यर्धपूर्व-' इति लुक् । खार्याः । द्विगोरिति । खारीशब्दान्ताद् द्विगोरित्यर्थः । अर्धखारमिति । अर्धनावमिव क्रीवत्वं लोकात् । अर्धखारीति 'परवल्लिङ्गम्-' इति स्त्रीत्वम् ।टज्वा स्याद् द्विगाविति । द्विगाविति किम् , द्वयोरञ्जलिः द्यञ्जलिः। द्वयजलमिति । समाहारे द्विगुः।