________________
प्रकरणम् २६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६६
मतभेदेन तद्वान्यै सूत्रमेतत्तथोत्तरम् ॥'
,
पितुरेवापत्यमिति पत्ते ह्यपगोस्तृतीये वाच्ये औपगवादिस्यात् । चतुर्थे स्वजीवज्ज्येष्ठे मृतवंश्ये वा औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्य उपगोरणा दृष्टे सिद्धेऽप्ययणन्तादिजपि स्यात् । ततश्चतुर्थे फगिति फगिजोः तद्धान्यै इति । त्स्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः, तदर्थमिदमित्यर्थः । तथोत्तरमिति । 'गोत्राद्यून्यस्त्रियाम्' इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति – पितुरेवेत्यादिना । औपगवादिञ् स्यादिति । 'अत इञ्' इत्यनेनेति शेषः । औपगवादेव इञ् स्यात्, न तु उपगोरणित्यर्थः तृतीयस्य उपगुं प्रत्यपत्यत्वाभावादिति भावः । चतुर्थे त्वित्यतः पूर्वन् उपगोरिति शेषः । अजीवज्ज्येष्ठ इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्य ' भ्रातरि च ज्यायसि' इति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । मृतवंश्य इति । मृतो वंश्यो यस्येति विग्रहः । वंश्ये जीवति तु 'जीवति तु वंश्ये युवा' इति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । औपगवेः फगिति । 'यञिञोश्च' इत्यनेनेति शेषः । एकोनेति । एकोनशतास्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः । अथापत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति - पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपज्ञस्य निराकरणाद् ' अपत्यं पौत्रप्रभृति-' इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति । तृतीयादीनामप्यपत्यत्वेन तत्र 'तस्यापत्यम्' इत्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति । प्रकृतिभ्य 'अपत्यं पौत्रप्रभृति -' इति सूत्रमप्यत्रानुगुणम् । आद्यपक्षे हि 'अपत्यमिवापत्यम्' इति गौणी वृत्तिर श्रयणीया स्यात् । श्रमरस्तु सूत्रभाष्यादिविरोधादुपेक्ष्य इति । तद्धान्यै इति । श्रद्यपक्षे प्रत्ययमालानिवृत्तये, अन्त्ये तु स्वद्यनसंख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । औपगवादिञ् स्यादिति । तृतीयस्य उपगुं प्रति अनपस्यत्वादिति भावः । एवं चासति सूत्रे अस्मिन् पक्षे औपगविरित्यनिष्टमेव स्यात्, औपगव इतीष्टं तु न सिद्ध्यतीति बोध्यम् । अजीवज्ज्येष्ठे इति । जीवज्ज्येष्ठे जीवद्वंश्ये वा युवसंज्ञायां सत्यां गोत्रसंज्ञा नेति भावः । इष्टे सिद्धेऽपीति । अस्मिंश्च पते औपगवस्य यदपत्यं तदुपगोरप्यपत्यमिति उपगोर्यदा प्रत्ययः तदा ‘औपगवः' इतीष्टं यद्यपि सिद्ध्यति, तथाप्यौपगविरित्यनिष्टं प्राप्नोतीत्यर्थः । तत इति । इंञन्तादित्यर्थः । फगिञोरिति । फगन्तादिञ्, इजन्तात्फक् तदन्तात्पुनरिञ