________________
३०० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारपरम्परायां शततमे गोत्रेऽष्टनवतेरनिष्टप्रत्ययाः स्युः, अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् । १०६४ गोत्राबून्यस्त्रियाम् । (४-१-६४) यून्यइति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवतिरिति शेषः। नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपते, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियना गार्यशब्दस्येष्टस्य सिद्धावपि गर्गादिनि ततः फिनित्येवं प्रत्ययपरम्पराप्यनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः। एवमुत्तरसूत्रेऽप्यूह्यमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते । गोत्राङ्न्यस्त्रियाम् । गर्गस्य गोत्रं गार्यः, गर्गस्य तृतीयः । 'गर्गाइत्यादिपरम्परायां सत्यामित्यर्थः । नियमार्थमिति । नन्वाद्यपते तत्तत्पितृवाचकादेव प्रत्ययः, न तु मूलभूतात्स्यात् , अनन्तरापत्ये मुख्यसंबन्धे चरितार्थस्याणादेर्गौणसंबन्धेऽपि प्रवृत्तेरन्याय्यत्वात् । तथा चौपगवापत्येन उपगोमुख्यसंबन्धाभावादत्राप्राप्ते विध्यर्थमेवेदं सूत्रम्, न तु नियमार्थमिति औपगवशब्दादपि प्रत्ययो दुरि इति चेत् । अत्राहुः-गोत्रे बोधनीये क्रमेणानेकप्रत्ययप्रसङ्गे एक एवापत्य प्रत्ययः स्यादिति सूत्रार्थे कृते औपगवशब्दस्यापत्यप्रत्ययान्तत्वात्पुनरपत्यप्रत्ययस्ततो नोपपद्यते इत्यगत्या परम्परासंबन्धाभ्युपगमेनोपगोरेव तदुत्पत्तिः, न त्वौपगवशब्दादिति सिद्धमिष्टमिति । अत्र केचिद्याचक्षते--प्राद्यपक्षे प्रत्ययपरम्परायां प्राप्तायाम् ‘एको गोत्रे' इत्यनेनैकः प्रत्ययो विधीयते । तथा चैको नामैकजातीय इत्यर्थपर्यवसानान्मूलप्रकृतेर्योऽपत्यप्रत्ययोऽणादिस्तज्जातीय एव गोत्रे बोधनीये तत्तत्पितृवाचकाद्भवति 'अणन्तादण् , इअन्तादिन् , यजन्ताद्यञ्' इति । न चैवमणिोः परम्परायां निवर्तितायामप्यौपगव इत्यत्राणप्रत्ययपरम्परा स्यात् । तथा गार्य इत्यादौ यत्रादिपरम्परेति वाच्यम् । सत्यामपि तस्यामनिष्टाभावादिति । तच्चिन्त्यम् । फगन्तात्फकि नाडायन इत्यादावनिष्टप्रसङ्गादिति दिक् । ऊह्यमिति । 'अपत्यं पितुरेव' इति पक्षे चतुर्था. पत्यरूपे यूनि विवक्षिते 'गोत्राथूनि-' इति नियमसूत्रे सत्यसति च गोत्रप्रत्ययान्तादेव युवप्रत्यय इति द्वयोः परम्परा, सा चेष्टत्वान्न नियमेन व्यावर्त्यते । पञ्चमे तु यूनि नियमाभावे त्रयाणां परम्परा प्रसज्यते । षष्ठे तु चतुर्णामित्यादि । 'ततः प्राचामपि' इति द्वितीयपक्षे तु गर्गाच्चतुर्थे यूनि मूलप्रकृत्यनन्तराभ्यामनिष्टोत्पत्तिः प्रसज्यते । पञ्चमे तु मूलप्रकृत्यनन्तरयुवभ्यः । तथा नडाच्चतुर्थे यूनि पूर्ववद्वाभ्यामनिष्टोत्पत्तिः, पञ्चमे तु त्रिभ्यः । उपगोश्चतुर्थे वाच्ये तु मूलप्रकृतरेकस्मादेवानिष्टोत्पत्तिः। न त्वनन्तरापत्यवाचकात् । ततो जातेऽप्यत इमि रूपानिष्टाभावादित्यादि यथासंभवं तत्रोह्यमित्यर्थः । गोत्राथूनि । असत्यस्मिन् सूत्रे मुख्यमते पञ्चमादौ यूनि विवक्षिते