________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०१ पत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा । गर्गस्य युवादिभ्यः-' इति गोत्रे यञ् । गाय॑स्य तृतीयः, स गर्गस्य पञ्चमो युवापत्यम् , तस्मिन्बुबोधयिषिते गार्ग्यशब्दाद् गोत्रप्रत्ययान्ताद् 'यजिजोश्च' इति फकि गाायण इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु गाायण इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव, गर्गात्तृतीयं गाये प्रति पञ्चमादीनामप्यपत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अनन्तरापत्ये इजि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावाद् यजभावे इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गः फकि गार्गायण इति स्यात् । गोत्रप्रत्ययान्तादेव गार्ग्यशब्दाद् गर्गस्य पञ्चमाद्यपत्ये यूनि फकि गाायण इत्येवेष्यते । तदर्थ गोत्रप्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते--गोत्रायूनीति । तदाह-यून्यपत्ये गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद् युवप्रत्ययान्ताचेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् , नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति, तत्र विध्यर्थमेवेदं स्यात् , नतु नियमार्थमिति वाच्यम् , पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । गोत्रप्रत्ययान्तात् युवप्रत्ययोत्पत्ताविष्टे सिद्धेऽपि मूलप्रकृत्यनन्तरयुवभ्योऽपि स्यादिति पाक्षिकानिष्टे प्राप्ते नियमार्थमिदमित्याशयेनाह--गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृत्यनन्तरयुवभ्य इत्यर्थः । मनोरमायां तु युवप्रत्ययान्तादिति प्रथमपक्षेऽर्थ इत्यपि स्थितम् । अत्र वदन्ति--पश्चमादौ यूनि विवक्षिते तस्य पुनस्तृतीयं प्रत्यनपत्यत्वादप्राप्तौ विध्यर्थमेवेदं स्यात् , नतु नियमार्थमिति युवप्रत्ययान्तात्प्रत्ययो दुर्वारः स्यात् । तस्मादिह 'पितुरेवापत्यम्' इति पक्षो नाश्रयणीय इति । अन्ये त्वाहुःआद्यपक्षे 'गोत्राथूनि--' इत्यावर्त्य एकेनाप्राप्तप्रत्ययं विधाय द्वितीयेन नियम्यते 'यूनि गोत्रादेव' इति । एवं च 'ततः प्राचामपि' इति पक्षण सहास्यैकरूपता भवतीति । 'गोत्राचेचून्येव' इति विपरीतनियमस्त्विह न कृतः, व्यावालाभात् । नच शैषिकाच्छादयो व्यावा इति वाच्यम् । 'गोत्रेऽलुगचि' इति लिङ्गात् । स्त्रियां त्विति । यद्यत्र 'अस्त्रियाम्' इत्यस्यैकवाक्यतया 'स्त्रीभिन्ने यूनि गोत्रादेव' इत्यर्थः क्रियते, तर्हि स्त्रीषु युवसंज्ञाया अनिषेधात् युवतिषु प्रत्ययानां परम्परा प्रसज्येत । नच "एको गोत्रे' इत्यनेन निस्तारः । युवसंज्ञया गोत्रसंज्ञाया बाधात् । अथ 'स्त्रियां न युवप्रत्ययः' इति वाक्याभेदेनार्थः क्रियते. तदा गोत्रप्रत्ययेन युवतिर्नाभिधीयेत । किं