________________
३०२ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारपत्यं गाायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः । १०६५ अत इञ् । (४-१-६५) अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकास्पष्टयन्तादिनस्यादपत्येऽर्थे । स्त्रियां तु न युवसंज्ञेति । इह अस्त्रियामिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते । तथा च स्त्री उक्तयुवसंज्ञिका नेति फलितमिति भावः । न च स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलाभादिति वाच्यम् , पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । न च ‘एको गोत्रे' इति नियमात्तन्निवृत्तिः सम्भवतीति वाच्यम् , युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियां न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् , गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गार्ग्यशब्दाद् गोत्रे यान्तात्फकि गाायण इति रूपमित्यर्थः । स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति-स्त्रियामिति । पञ्चमादियुवतीनां युवसंज्ञाविरहेण गोत्रत्वाद् ‘एको गोत्रे' इति नियमाद्गार्गीत्येव भवति, न तु गाायणीति रूपमित्यर्थः । स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधाद् ‘एको गोत्रे' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः । अत इञ् । प्रातिपदिकादित्यधिकृतम् अता विशेष्यते, तदन्तविधिः, तदाह-अदन्तं यत्प्रातिपदिकमिति । 'तस्यापत्यम्' इत्यनुवृत्तं 'समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठ्येव विवक्षिता । तथा च षष्ठ्यन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठ्यन्तम् , प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिकषष्ठ्यन्तादित्यर्थो विवक्षितः । तु वाक्यमेव स्यात् । ततश्च गार्ग्यस्यापत्यं स्त्री गार्गी न स्यात् । अतो 'युवसंज्ञानिषेध. परमेवेदम्' इत्याशयेन व्याचष्टे-न युवसंक्षेति । अत्रायमाशयः–'अस्त्रियाम्' इति योगो विभज्यते । 'यूनि' इति शब्दस्वरूपमनुवर्तते । परिभाषा चेयम् । यत्र युवसंज्ञाविधानं तत्र 'अस्त्रियाम्' इत्युपतिष्ठत इति सिद्धस्य गतिरियम् । 'जीवति तु वंश्ये युवाऽस्त्रियाम्' इत्येव सूत्रयितुं युक्तम् । अत इञ् । 'घकालतनेषु-' इति ज्ञापकात्सुबन्तादेव तद्धितोत्पत्तिरित्यभ्युपगमेऽप्यधिकृतप्रातिपदिकस्य न वैयर्थ्यम्, किंतु प्रयोजनमस्तीति ध्वनयति-अदन्तं यत्प्रातिपदिकमिति । अत इत्यस्य सुबन्तविशेषणत्वे तु दक्षयोरपत्यमित्यादिविवक्षायां दाक्षिरित्यादि न सिद्ध्येदिति भावः। तपरः किम् , विश्वपः अपत्यं वैश्वपः । 'प्रदीयतां दाशरथाय-' इत्यत्र तु 'तस्येदम्'
१ 'स्त्रियो' इति क्वचित् ।