________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०३ दाक्षिः। १०६६ बाह्वादिभ्यश्च । (४-१-६६) बाहविः । औडुलोमिः । श्राकृतिगणोऽयम् । १०६५ सुधातुरकङ् च। (४-१-६७) चादिन् । सुधातुरपत्यं सौधातकिः । 'व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम्' (वा तदाह-तत्प्रकृतिकात्षष्ठ्यन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ् , अादिवृद्धिः, 'यस्येति च' इत्यकारलोपः । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षमिति 'तस्यापत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्ती तु अदन्तात्षष्ठ्यन्तादिति लभ्येत । तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः । बाह्वादिभ्यश्च । अपत्य इनिति शेषः । बाहविरिति । बाहर्नाम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य बाहविर्गार्यगौतमौ' इत्याश्वलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इञि, ओर्गुणः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । इनि 'नस्तद्विते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावादप्राप्तिः । सुधातुरकङ् च । चादिअिति। सुधातृशब्दात्षष्ठ्यन्तादपयेऽर्थे इप्रत्ययः, प्रकृतेरकङादेशश्चेत्यर्थः । अकङो डकार इत् , अकार उच्चारणार्थः। डिच्चेत्यन्तादेशः, तदाह-सौधातकिरिति । व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब इत्यण । अपत्यत्वविवक्षायां त्विमेव । बाह्वादिभ्यश्च । 'बाध लोडने' इति धातौ 'केवलस्य बाहोरपत्ययोगासम्भवात्सामर्थ्यात्तदन्तविधौ सौबाहविः' इति माधवोक्तं चिन्त्यमिति ध्वनयन्नाह-बाहविरिति । 'जानन्ति बाहविर्गार्यगौतम-' इत्या. श्वलायनसूत्रप्रयोगद्भाष्यवृत्त्यायुदाहरणाच बाहुशब्दः संज्ञारूपोऽस्तीति भावः ।
औडुलोमिरिति । यद्यपि गणे बाहु कृष्ण युधिष्ठिर अर्जुन प्रद्युम्नेत्यादिषु केवलो लोमनशब्दः पठितः, तथापि सामर्थ्यात्तदन्तग्रहणम् । 'तारकाप्युड वा स्त्रियाम' इत्यमरोक्त्या नक्षत्रवाच्युडुशब्दः । उडूनीव लोमानि यस्य तस्यापत्यमोडुलोमिः। शरा इव लोमानि यस्य तस्यापत्यं शारलोमिः । बहुत्वे तु इनपवादोऽकारः प्रागेवाजन्तेषूक्तः । उडुलोमाः । शरलोमाः । इह प्रतिपदविधानेषु पुराणसिद्धाः संज्ञाशब्दा एव गृह्यन्ते, शीघ्रोपस्थितिकत्वात् । तेन इदानींतनो यो बाहुस्तस्यापत्ये बाहव इत्यणेव, न त्विञ्। उक्तं च हरिणा-'अभिव्यक्तपदार्था ये खतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥' अनर्थकं संदिग्धार्थकमप्रयुक्तं च क्रमेण विशेषणत्रयव्यावर्त्यम् । तदुक्तिषु-तत्सदृशेष्वित्यर्थः । अत एव संज्ञा श्वसुरस्यापत्यं श्वाशुरिरित्यत्र 'राजश्वशुरात्-' इति यन्न । मिमीते माता, तस्याः खसा मातृखसा। इह 'मातृपितृभ्यां खसा' इति षत्वं न। नन्वेवं बाहवः श्वाशुरिरिति पूर्वोक्तौ न
१ 'चाण्डाल' इति क्वचित्पाठः ।