________________
२६८ ]
सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार
'गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्वयनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
-
मुखे भवो मुख्यः प्रथमः । ' एकोऽन्यार्थे प्रधान च प्रथमे केवले तथा ।' इति कोशान्तरम् । तथा च मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्य प्रत्ययलाभ इति व्याख्यान्तरम् । गोत्रे एकः प्रथम एवशब्दः प्रत्ययोत्पादक इति । तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति - गोत्रे स्वैकोनेति । अत्र प्रथम श्लोकान्ते श्रुतं ' प्रसज्यते' इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते । अत्र स्वं गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसंख्याकानाम् अनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः । यद्वेति । स्वं गोत्रं तद् मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया धनसंख्याकप्रकृतिभ्यः तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह- अपत्यमित्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिषति । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः । कस्मिन् गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमित्याशङ्कय सूत्रारम्भफलं मतभेदेन व्यवस्थापयति — गोत्रे स्वैकोनेति । 'स्वं गोत्रं तदपेक्षया एकोनसंख्यानां, तृतीये द्वयोः परम्परा, चतुर्थे त्रयाणां पञ्चमे तु चतुर्णाम्' इत्यादिपरम्परा प्रसज्यत इत्यर्थः । तथाहि —उपगोस्तृतीये अणिनोः परम्परा, चतुर्थे त्वणिञ्फकाम्, पञ्चमे त्वणिञ्फगिञाम् । यद्यप्यत्र 'यस्येति च' इति लोपेनाणादेरसत्त्वात् 'अणित्रादीनां परम्परा' इत्युक्तिर्न' संगच्छते तथापि 'अणन्तादिमुत्पद्यते इञन्तात्फक्' इत्युत्पत्तिमात्राभिप्रायेण प्रत्ययपरम्पराभिधानं बोध्यम् । स्वद्यनसंख्येभ्य इति । स्वं गोत्रं तदपेक्षया व्यनसंख्येभ्यः प्रातिपदिकेभ्यः तृतीये एकस्मादनिष्टोत्पत्तिः, चतुर्थे द्वाभ्यां पञ्चमे त्रिभ्यः, इत्यादीत्यर्थः । श्रपत्यं पितुरेवेति । तथा चामरः - 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे' इति । मुख्यमतमाह—ततः प्राचामिति । पित्रपेक्षया ये प्राञ्चः पितामहप्रपितामहादयस्तेषामपीत्यर्थः । अत्रायमाशयः - अपत्यशब्दः क्रियानिमित्तो न त्वात्मज - पर्यायः । 'न पतन्त्यनेनेत्यपत्यम्' इति व्युत्पत्तेः 'पक्तिविंशति -' इति सूत्रे भाष्यकृता दर्शितत्वात्, बाहुलकात्करणे यत्प्रत्ययः । ' यन्निमित्तं यस्यापतनं तत्तस्यापत्यम्' इति फलितोऽर्थः । तथा च 'पौत्रादिरपि पितामहादीनामपतनहेतुः' इति तेषामपत्यत्वं भवति । प्रसिद्धं च व्यवहितोऽपि पितामहादीनामुद्धर्तेति जरत्कार्वाद्युपाख्यानेषु ।
ܘ