SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६७ श्रौपगवशब्दे व्युत्पादिते सति औपगवस्यापत्ये वस्तुत उपगोस्तृतीये गोत्रे विवक्षिते औपगवशब्दाद् 'अत इञ्' इति इञि श्रपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवं च उपगोस्तृतीये विवक्षिते उपगोर औपगवादिनिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो जनयतीति सोऽप्यनिष्ट एव । तथा च तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । स च वस्तुतः अणेव न त्विञ्, अदन्तत्वाभावात्, विहिते च तस्मिन् औपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुं तत्पुत्रं च प्रत्यपत्यत्वाभावात् पौत्रं प्रत्येवापत्यत्वा दौपगविशब्दाद् 'यञिञोश्च' इति फकि प्रकृतित्रयादनिष्टा औपगवायन इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिनि औपगवायनिरित्येवं प्रकृतिचतुष्टयात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवाय निःशब्दात् फकि औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः । तदेवं फगियोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्य एकोनशतमनिष्टप्रत्ययाः स्युः । अत्र तृतीयप्रभृति कस्मिंश्चिगोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् 'एको गोत्रे' इत्यणेव भवति नतु इजादि । यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणः तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि 'तस्यापत्यम्' इत्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते प्रत्येयः अनिष्टः प्रसज्येत । एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिनि औपगवः, तस्मात्फकि औपगवायनः, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोभूल प्रकृतेरशिष्ट एव । इञ्फकौ तु प्रत्ययावनिष्ठौ । तथा उपगोचतुर्थे विवक्षिते द्वितीयस्मादेकः श्रनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वया. दनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रयात् त्रयः प्रत्ययाः । षष्ठे प्रकृतिचतुष्टयात् चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनि ष्टप्रत्ययाः स्युः । तत्र 'एको गोत्रे' इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्यादिति । तत्रापि प्रथमातिक्रमे कारण भावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः । ' एके मुख्यान्यकेवलाः' इत्यमरः । फगेव, स च नाडायनस्यापत्येऽपि भवति न तु फगन्तादिव्, उक्त नियमात् । नन्वे१ इप्रत्ययः इति युक्तं भाति ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy