________________
२६६ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार इति किम्-गाग्यायणः । १०६३ एको गोत्रे। (४-१-६३) गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमोपगवः । गार्ग्यः । नाडायनः। षयमिदम् । एको गोत्रे । संख्याविशेषोपादाने तदितरसंख्याव्यवच्छेदस्य स्वभावसिद्धत्वाद् एक एवेति गम्यते। अपत्याधिकारात्प्रत्ययाधिकाराच अपत्यप्रत्यय इति तद्विशेष्यलाभः। तदाह-गोत्रे एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोत्रापत्ये 'तस्यापत्यम्' इत्यण् । गार्य इति । गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यःइति फक् । गोत्र एक एव प्रत्ययः स्यादित्येवोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिप्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्यत। अतोऽपत्यग्रहणमित्याहुः। नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेत् , मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येकः पक्षः। पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद् 'अपत्यं पौत्रप्रभृति-' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाभावात् 'तस्यापत्यम्' इत्यण् न संभवति । ततश्च उपगुपुत्रे वाच्ये 'तस्यापत्यम्' इत्यणा एको गोत्रे। 'गोत्रे' इति जात्यपेक्षया एकवचनम् । एकशब्दः संख्यावाची । 'गोत्रेऽभिधित्सिते अपत्यत्वबोधकप्रत्यय एक एव स्यात्' इत्युक्तेः । गोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते नान्यः। यदि त्वनन्तरापत्यप्रत्ययान्तादपि प्रत्ययः स्यात् , तर्हि गोत्रापत्ये एक एव प्रत्ययो न कृतः स्यात् । इत्थं च 'अपत्यप्रत्ययान्तात्प्रतिषेधो वाच्यः' इति वार्तिकार्थोऽप्यनेन संगृहीत इत्याशयेन व्याचष्टे-गोत्रे एक एवेति। अपत्यप्रत्यय इति । एतच्चाधिकाराल्लब्धम् । अन्ये तु एकशब्दः प्रथमपर्यायः प्रथमश्चापत्यप्रत्ययशून्यः, तथा च 'प्रथमा प्रकृतिर्गोत्रे अपत्यप्रत्ययं लभते' इति सूत्रार्थ व्याचक्षते । तक्लिष्टम् । अस्यां पङ्क्तावेकमानय इत्युक्ते 'प्रथमम्' इति प्राथम्यार्थस्याप्रतीतेः । वस्तुतस्तु 'प्रथमादित्यधिकाराद्गोत्रे प्रथमादेव प्रातिपदिकादपत्यप्रत्ययः' इति व्याख्यायैकग्रहणमिह त्यक्तुं शक्यमित्याहुः। औपगव इति । 'उपगुशब्द एव प्रत्ययं लभते, न त्वौपगवशब्दः' इति गोत्रापत्येऽप्यनन्तरापत्य इवाणेव भवति, न त्विञ् । गार्य इति । गोत्रापत्ये 'गर्गादिभ्यो यज्' इति विशिष्य विधानादनन्तरापत्य इवात्र 'अत इञ्' न भवति किं तु यव । स च गार्यस्यापत्येऽपि भवति, न त्वत्र यजन्तात्फक् ‘एको गोत्रे' इति नियमात् । नाडायण इति । 'नडादिभ्यः फक्' इति गोत्रापत्ये विधानादत्रापि 'अत इञ्' न भवति, किंतु