________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ उभयोरुत्कर्षार्थः । स्थानेन वयसा चोस्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गाय॑स्यापत्यं गाायणः गार्यो वा । स्थविर इति किम्-स्थानवयोन्यूने गार्य एव । जीवति इति किम्-मृते मृतो वा गार्य एव । 'वृद्धस्य च पूजायामिति वाच्यम्' (वा २६५४ ) गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्रभवान्गाायणः । पूजा इति किम्-गार्ग्यः। 'यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम्' (वा २६५१)। गार्यो जाल्मः । कुत्सा जीवतिपदं तिङन्तम् अपत्येऽन्वेति-यदपत्यं जीवति तावसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे पपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीयमिति । अनुवर्तमानमित्यर्थः । उभयोरिति । हेतुत्वसम्बन्धे षष्ठी । उभयहेतुकोत्कर्षवाचकस्तरबित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानत उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः । मृते मृतो वा गार्ग्य एवेति । मृते सपिण्डे चतुर्थो गार्ग्य एव । मृतश्च चतुर्थो गार्थ एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति --गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्नीत्यर्थः । तथाच वार्तिकस्य फलितमर्थमाह-गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति । उदाहरति-तत्रभवान् गाायण इति । तत्रभवानिति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । तां गोत्रप्रभृतिस्तृतीयोऽपि मन्यते। अत्र युवसंज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः । गार्यो जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विवेति । यो जीवति स टु वसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गार्य एव भवति, न तु गाायण इति भावः । एकमिति । इहत्यमित्यर्थः। द्वितीयमिति । अनुवर्तमानं सप्तम्यन्तमित्यर्थः। यदुक्तमुभयोरिति तदेव विवृणोति-स्थानेन वयसा चेति । मातामहे भ्रातरि वेति । संनिहितत्वात् 'भ्रातरि' इत्यस्य 'मातामहभ्रातरि' इत्येवाथ इत्येके । 'पितृव्यपुत्रे' इत्यन्ये । वृत्तौ तु 'पितृव्ये पितामहे भ्रातरि वा' इति पाठः । जीवतीति किमिति । जीवतिद्वयं किमर्थमिति प्रश्नः। अतएव 'मृते मृतो वा' इत्युत्तरं संगच्छते । अन्यस्मिन् किम् , भ्रातरि जीवति जीवतो विकल्पो मा भूत् । पूर्वसूत्रं तु भ्रातरि जीवति मृतस्य कनीयसो युवसंज्ञार्थ. मिति सावकाशम् । वृद्धस्य चेति । वार्तिकमिदम् । तथा 'यूनश्च' इत्यग्रिममपि ।